पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रक.]
21
गूढपुरुषप्रणिधि

 सूदाराळिकस्नापकसंवाहकास्तरककल्पकप्रसाधकोदकपरिचारका रसदाः कुब्जवामनकिरातमूकबधिरजडान्धच्छद्मानो नटनर्तकगायनवादकवाग्जीवनकुशीलवाः स्त्रियश्चभ्यन्तरं चारं विद्युः । तं भिक्षुक्यः संस्थास्वर्पयेयुः ।

 संस्थानामन्तेवासिनः संज्ञालिपिभिश्चारसञ्चारं कुर्युः ।।
 न चान्योन्यं संस्थास्ते वा विद्युः ।
 भिक्षुकीप्रतिषेधे द्वास्थपरम्परा मातापितृव्यञ्जनाः शिल्प कारिकाः कुशीलवा दास्यो वा गीतवाद्य[१]भाण्डगूढलेख्य संज्ञाभिर्वा चारं निर्हरेयुः । दीर्घरोगोन्मादाग्निरसविसर्गेण वा गूढनिर्गमनम् ।

त्रयाणा [२] मेकवाक्ये सम्प्रत्ययः ।।
तेषामभीक्ष्णविनिपाते तूष्णीदण्डः प्रतिषेधो वा ।
कण्टकशोधनोक्ताश्चापसर्पाः परेषु कृतवेतना वसेयुः ।
सम्पातश्चोरार्थ[३] । त उभयवेतनाः ।।

 गृहीतपुत्रदारांश्च कुर्यादुभयवेतनान् ।
 तश्चारित्रहितान्विद्यात्तेषां शौचं च तद्विधैः ॥
 एवं शत्रौ च मित्रे च मध्यमे चावपेच्चरान् ।
 उदासीने च तेषां च तीर्थेष्वष्टादशस्वापि ।।
 अन्तगृहचरास्तेषां कुब्जवामनषण्डकाः ।
 शिल्पवत्य: स्त्रियों मूकाश्चित्राश्च म्लेञ्छजातयः ॥


  1. गतिपाव्य.
  2. त्रयाणामन्योन्य,
  3. तनिश्चरार्थ,