सामग्री पर जाएँ

पृष्ठम्:केनोपनिषद्भाष्यम् (श्रीरङ्गरामानुजमुनिविरचितम्).djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११
केनोपनिषत्

 यस्यामतमिति । यः परिच्छिन्नत्वेन ब्रह्म न मनुते स ब्रह्म मनुते । यस्तु परिच्छिन्नत्वेन ब्रह्म मनुते से तु न जानातीत्यर्थः । अविज्ञातमिति । ब्रह्म एतावदिति परिच्छेदज्ञानवता ब्रह्म अविज्ञातं भवति । परिच्तित्वज्ञानशून्यानां ब्रह्म विज्ञातं भवतीत्यर्थः । उक्तश्च भगवता भाष्यकृता-

यतो वाचो निवर्तन्ते अप्राप्य मनसा सहेति ब्रह्मणोऽनन्तस्यापरिमित-
गुणस्य वाड्मनसयोरेतावदिति परिच्छेदायोग्यत्वश्रवणेन ब्रहृतावदिति
परिच्छेदज्ञानवता ब्रह्माविज्ञातममतमित्युक्तम् । अपरिच्छिन्नत्वाद्
ब्रह्मणः । अन्यथा'यस्यामतं तस्य मतम् ‘विज्ञातमविजानताम्
इति तत्रैव मतत्वविज्ञातत्ववचन विरुध्येत ।

इति । ततश्चाविज्ञातत्वादिवचनं कात्स्न्येन ज्ञानाविषयत्वपरम् । न तु सर्वात्मना ज्ञानागोचरत्वपरमिति द्रष्टव्यम् । तथा हि सति ‘ब्रह्मविदामोति परम्' * तमेव विदित्वाऽति मृत्युमेति' इत्यादिशास्त्रिाणामसङ्गतार्थत्वप्रसङ्गात् वेदान्तानां नैरर्थक्य- प्रसङ्गाच्च ।। ३ ।।


 यस्येति कर्तरि पट्टी। यत्क्क मननाविषयः तत्कर्तृकमननविषयः इति बाधितम् । तेन अमतमित्यग्ने धात्वर्थे परिच्छिन्नत्वप्रकारकत्वं विशेषणं देयम् । तदाह य इत्यादि । मतं यस्ये. | त्येतद् व्याचठे यस्त्यिति । पूर्ववद् विरोधपरिहाराया परीति । यद्यपि अहं ब्रह्म सुवेद । परि पूर्ण ब्रह्म अहं मन्ये इत्येव अज्ञो मनुते न तु परिच्छिन्ने प्रक्षेति तथापि मया वेदितुं मन्तु शक्यमिति या तस्य मतिः सैव परिच्छिन्नत्वमतिरिति भाव.। एवमुत्तरत्र ! अस्या उपनिपदो यः प्रधानप्रतिपाद्योऽर्थः कान्ये॑न वेदितुमशक्यं ब्रह्मेत्येवंरूप एतन्मन्त्रद्वये सध्तरमुक्तः तस्य शारीरकै उद्धारं दर्शयति उकं चेति । अमतमित्युक्तमिति । 'न वेद सः' इति सामान्यचाच्यपि विदधातुः प्ररणान्मनने वर्तते । छारे सवपि पूर्वोत्तरानुगुण्यात् तस्याविदितं तस्यामतम्। इत्येव स्थितं चेदितव्यमित्यभिप्रायः} भाष्यमन्यस्य प्रकृते उपयोगमाह ततश्चेति । अविज्ञात वादीलादिना अमतत्वप्रणम् । असतेति । ब्रह्मकर्मकत्वस्य वेदनेऽभावानन्क्योऽसङ्गतिः । वेदनाभावे तत्साध्यपरमपुरुपर्थािलाभान्नैरर्धक्यम् ।

 इति शुश्रुमेति प्राक्प्रस्तुतश्रवणात्मकज्ञानं मुवेदेत्येवंरूपं न भवति । न वैदेति नेत्येवं- रूपं तु भवनि । इति पूर्वमन्त्रेणोक्तम् । अथ मनुनानिदिध्यासनात्मके अपि ज्ञाने तादृशे इत्यास्मन् मन्त्रे उफमिति ज्ञेयम् ॥ ३ ॥