इति साक्यवरूपकोदाहरणे। तत्रापि विषयविषयिणोस्तविशेषाणां च
प्रत्येकमेवैक्यारोपो नतु ज्योत्स्वादिविशिष्टरात्रिरूपविषयस्य भस्मादिविशिष्टकापालिकीरूपविषयिणश्च विशिष्टरूपेणैक्यारोपोऽस्तीति। तस्माद्वाजसेवा मनुयाणामित्यादावपि वाक्यार्थवृत्तिनिदर्शनैव युक्ता । मतान्तरे त्विह पदार्थवृस्यैव निदर्शनया माव्यमिति ॥ ५४॥
|
अपरां बोधनं प्राहुः क्रिययाऽसत्सदर्थयोः । |
कस्यचित्किचित्क्त्रियाविशिष्टस्य स्वक्रियया परान्प्रत्यसतः सतो वार्थस्य बोधनं यन्नियध्यते तदपरां निदर्शनामाहुः। असदर्थबोधने उत्तरार्धमदाहर-
व्यवहार इति चण्डीदासः । मुद्रापरिमलशब्दो प्रशंसाार्थावित्यन्ये । मद्रा चिह्नं तद्रूपे कयाठ इति वार्थः । विषयविषयिणो रात्रिकापालिक्योः । तद्विशेषणानां तत्संबन्धिनां ज्योत्नामसादीनां यथाश्रुते रात्रिकापालिकीति समासस्योत्तरपदायैप्रधानतया ज्योत्यादीनां रात्रिविशेषणत्वाभावादसंगतेः॥ प्रत्येकमेवेति॥ शुद्धस्वरूपेणैवेत्यर्थः ॥ नत्विति ॥ उक्तयुच्या विशेषणखाभावादिति भावः । बस्तुतो मत्मादेः कापालिकीं प्रत्यपि न विशेषणत्वमपि तु तत्कोटिनिविष्टत्वमेवेत्वषि बोध्यम् । वाक्यार्थशब्दस्य बिम्बप्रतिविम्बभावापन्नवस्तुविशिष्टार्थपरत्नमहीकृत्य राजसेवेत्युदाहरणे वाक्यार्थवृत्तिनिदर्शनावमुक्तमुपसंहरति--- तस्मादिति । उक्त्तलक्षणस्य व्यवस्थितखादित्यर्थः ॥ मतान्तरे विति॥ सरक्षयो क्यार्थयोर्वाक्याप इति यथाश्रुतलक्षणाजीकर्तृमते इत्यर्थः । इह राजसेवेत्युदाहरणे ॥ पदार्थवृत्त्यैवेति ॥ उपमाकल्पक एकपदार्थ अपरपदार्थतर्द्ध्मान्यतरारोप इति तल्लक्षणस्य तदमिमतत्वादिति भावः॥ ५४॥ निदर्शनान्तरमा.--अपरामिति ॥ पूर्व विलक्षणामित्यर्थः । निदर्शनामित्लनुषज्यते। क्त्रिमयाऽसत्सदर्थयोर्बोधनमपरां निदर्शनां प्राहुरिति संबन्धः। सदसदर्थयोरिति वक्तब्येऽपि छन्दोनुरोधादित्यमाभिधानम् । 'समुद्राभ्राद्धः' इत्यादिसौत्रनिर्देशेन .. पूर्वनिपातविधेनित्यत्वज्ञापनात् । लक्षणं चाचष्टे-कस्यचिदिति ॥ अत्रासत्तः सतो वोते विभागकथनं नतु लक्षणान्तर्गतम्। उदासीनार्थबोधने चमत्बररित्वाभाबेनैवानतिप्रसङ्गात् । स्वक्रियया सहकारिभूतया क्रियाविशिष्टस्य वस्तुनः संबन्ध्यर्थस्य बोधनं बोयानुकूलो व्यापारो यन्निबध्यवे वर्ण्यते सा निदर्शनेति लक्षणम् । अब 'निवातपद्मोदरसोदराभ्यां विलोचनाभ्यामवलोकयन्ती। न केवलं नि मनोमवेऽपि चनक्ति कंचित्तपसः प्रभावम् ॥' इत्यादावतिव्याप्तिः। अवलोकनक्रियाविशिष्टया कामिन्या तपःप्रभावबोधनस्य वर्णनादिति चेन्न ।
- ↑ विमावन समृद्धीना'