पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५९ निदर्शनालंकारः १९ ] अलंकारचन्द्रिकासहितः। इत्यत्र प्रस्तुताग्रस्तुतवृत्तान्तयोरेकैकपदोपात्तत्वेऽपि वाक्यावृत्तिनिदर्श- नाया न क्षतिः। तयोबिम्बप्रतिबिम्बभावापन्नवस्तुविशिष्टव्यवहाररूपत्वात् । अतएव निदर्शनाया रूपका दः रूपके ह्यविशिष्टयोरेब मुखचन्द्रादिकयो- रैक्यारोपः। 'अनिदण्डो हरेरूर्ध्वमुदिक्षप्तो बलिनिग्रहे। विधिविष्टरपास नालदण्डो मुदेऽस्तु वैः॥' इति विशिष्ट रूपकोदाहरणेऽपि न बिम्बप्रतिबिम्बभावापन्नवस्तुविशिष्ट- रूपता। विधिविष्टरकमलश्लिष्टत्वरूपसाधारणधर्मवत्तासंपादनार्थमेव तद्विशे- षणोपादानात्। यद्दातुः सौम्यतेत्यादिनिदर्शनोदाहरणेषु दातृपूर्णेन्द्वादीनामा- नन्दकरत्वादिनेवान विशेषणयोबिम्बप्रतिबिम्बभावाभावात् । यत्रतु विषयि- विशेषणानां परस्परसादृश्येन बिम्बप्रतिबिम्बभावोऽस्ति । . 'ज्योत्स्वाभस्मच्छरणधवला बिभ्रती तारकास्थी- न्यन्तर्धान व्यसनरसिका रात्रिकापालिकीयम् । द्वीपाद्वीपं श्रमति दधती चन्द्रमुद्राकपाले न्यखं सिद्धाञ्जनपरिमलं लान्छनस्य च्छलेन ॥' रैक्यारोप इत्येव लक्षणमस्तिस्याशङ्याह-अतएवेति ॥ एतादृशविशेषणवि- वक्षणादेवेत्यर्थः । भेदो व्यावृत्तिः । तथाच तदभावे रूपकेऽतिप्रसङ्गः स्यादिति भावः । कथमनेन तद्वारणं तत्राह-रूपके इति ॥ अविशिष्टयोवि- म्वप्रतिबिम्बभावापन्नवस्वविशिष्टयोः। बिम्बप्रतिबिम्बभावापन्नेत्यस्य व्यावृत्ति दर्शयति-- अद्भिदण्ड इत्यादि ॥ बलेदैत्य विशेषस्य निग्रहे बन्धने कर्तव्ये ऊर्ध्वमुरिक्षप्तो हरेरनिदण्डो वो युष्माकं मुदेऽस्तिति संबन्धः । कीदृशः । विधे. ब्रह्मणो विष्टर आसनं तद्रूपस्य पद्मस्य नालदण्ड इत्यर्थः ॥ विशिष्टरूपकेति ॥ ऊोक्षिप्तव विशिष्टाजिदण्ड विधिविष्टर पद्मसंबन्धिखविशिष्टनालदण्डसंबन्धिरूप- केत्यर्थः ॥ विशेषणेति ॥ ऊर्वोत्क्षिप्तलरूपोपमेयविशेषणविधि विष्टरपद्मसं- बन्धिलरूपोपमानविशेषणयोरित्यर्थः। एवकारसूचितबिम्बप्रतिबिम्बभावव्यति- रेकं स्फुटयति—यद्दातुरिति ॥ अभावादिति ॥ सादृश्याभावादिति भा. वः। रूपकविशेषेऽतिव्याप्तिमाशय परिहरति यत्रत्वित्यादिना ॥ यत्र खित्यस्य-इति सावयवरूपकोदाहरणे इत्यग्रेतनेनान्वयः । विषयविषयिविशेषणा- नामारोपविषयारोप्यमाणसंबन्धिनां विशेषणानाम् ॥ ज्योत्स्नेति ॥ इयं रात्रि- रेव कापालिकी योगिनी द्वीपाद्दीपान्तर भ्रमतीत्यन्वयः। एतत्प्रधानरूपकम् । एतदङ्गभूतान्यपराणि विशेषणैः प्रतिपाद्यन्ते । यथा ज्योत्स्नारूपेण भस्मना छु- रणमङ्गलेपस्तेन धवला तारकारूपाण्यस्थीनि बिभ्रती अन्तर्धानस्य व्यसने को. तुके रसिका चन्द्ररूपे मुद्राकपाले न्यस्वं लाञ्छनस्य छलेन सिद्धाजनस्य परिमलं चूर्ण दधती धारयन्ती। दीक्षाकालगृहीतोपकरणेषु मुद्रोपपदनाना पाखण्डानां १ 'अस्तु न:'. २ 'विशिष्टरूपक'.