सामग्री पर जाएँ

पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५८
कुवलयानन्दः। [ निदर्शनालंकारः १९ ॥


'त्वयि सति शिव दातर्थस्सदभ्यर्थिताना-
 मितरमनुसरन्तो दर्शयन्तोऽर्थिमुद्राम्।
चरमचरणपातैदुर्ग्रहं दोग्धुकामाः
 करभमनुसरामः कामधेनौ स्थितायाम् ॥'
'दोर्ध्यामब्धि तितीर्षन्तस्तुष्टुवुस्ते गुणार्णवम् ॥'

 इत्यादिषु वाक्यभेदाभावेऽपि वाक्यार्थवृत्तिरेव निदर्शना । विशिष्टयोरैक्यारोपसद्भावात् । वाक्यार्थयोः सदृशयोरिति लक्षणा[]वयवे वाक्यार्थशब्देन बिम्बप्रतिबिम्बभावापन्नवस्तुविशिष्टस्वरूपयोः प्रस्तुताग्रस्तुतधर्मयोर्विवक्षितत्वादिति । एवंच-

'राजसेवा मनुष्याणामसिधारावलेहनम्। .
पञ्चाननपरिष्वङ्गो व्यालीवदनचुम्बनम् ॥'


नम् । नत्वेवंरूपेण लक्षणे निवेशः । ताद्रूप्यरूपकातिव्याप्तिवारणायोपमाकल्पकलस्यारोपविशेषणस्यावश्यकत्वेनोपमाकल्पकस्तत्तद्धर्मारोप इत्येतावत एव लक्षणस्य निर्दुष्टत्वात् । तदुक्तम्---'अभवन्वस्तुसंवन्ध उपमापरिकल्पकः' इति । ताद्रूप्यरूपके तु ताद्रूप्यावच्छिन्नाभेद एव विवक्षितो न पुनरुपमेति तद्वारणम् । ननु त्वयि सतीत्वाघुदाहरणे कापि निदर्शना न स्यादन्यधर्मस्यान्यनारोपात् , 'एकवाक्यत्वेन वाक्यार्थभेदाभावाञ्च, पदार्थवाक्यार्थनिदर्शनयोरसंभवादित्याशङ्कथाह--एवंचेति ॥ उक्तव्यवस्थाश्रयणे चेत्यर्थः ॥ विशिष्टयोरिति ॥ "बिम्बप्रतिबिम्बभावापन्नवस्तुविशिष्टयोरित्यर्थः । तत्र तावत्पूर्वपद्ये भोः शिव, अस्मदभ्यर्थितानां दातरि त्वयि सति इतरं क्षुद्रं प्रभुमनुसरन्तोऽर्थिनां मुद्रां चिहं दर्शयन्तो वयं कामधेनौ स्थितायां दोग्धुकामाश्चरमयोः पाश्चात्त्ययोश्चरणयोः पातैर्दुर्ग्रहं दुःखेन ग्राह्यं करभमुष्ट्रशिशुमनुसराम इत्यर्थके सकलकामदमहेश्वरकालीनक्षुद्रधनिकानुसरणकर्तुः कामधेनुस्थितिकालीनतथाविधकरभानुसरणकर्तुवैक्यारोपः । तत्रोपमानकोटिविशेषणयोः कामधेनुकरभयोरुपमेयकोटिविशेषणयोश्च महेश्वरक्षुद्रधनिकयोर्यथाक्रमं विम्बप्रतिबिम्बभावो बोध्यः। एवमनुसरणयोरपि । एवं दोार्भ्यामित्यत्राप्यब्धिगुणसमूहयोर्बिम्बप्रतिबिम्बभावो बोध्यः॥ नन्वियं व्यवस्था मूलविरुद्धेत्याशङ्याह-वाक्यार्थयोरिति ॥ ननु वाक्यार्थशब्दस्यावान्तरदाक्यार्थसाधारणानेकपदार्थपरत्वेनैवोक्तोदाहरणसंग्रहसंभवादेवंविधगुरुतरार्थपरत्वं न युक्तमित्यत आह-एवंचेति ॥ एवंविधार्थविवक्षणे चेत्यर्थः। अवलेहनं जिह्वया घट्टनम् । पञ्चाननः सिंहस्तस्य परिश्वत आलिङ्गनम् । व्याली भुजङ्गी । अशक्यत्वं बलवदनिष्टजनकत्वं च साधारणो धर्मः । प्रस्तुतवृत्तान्तो राजसेवा । निदर्शनायास्तलक्षणस्य न क्षतिर्नाव्याप्तिः । तयोः प्रस्तुताप्रस्तुतवृत्तान्तयोः असिधारादिभिः समं राज्ञो बिम्बप्रतिबिम्बभावात्तद्विशिष्टयोश्चक्यारोपादिति भावः । एवं तर्हि सदृशयो-


  1. लक्षणवाक्ये'