पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अतिशयोक्त्यलंकारः १३ ] अलंकारचन्द्रिकासहितः। ३९ अग्रे शैलौ सुकृतिसुगमौ चन्दनच्छन्न देशो तत्रत्यानां सुलभममृतं संनिधानात्सुधांशोः ॥ अन्न वाप्यादिशब्दैनाभिमभृतयो निगीर्णाः । अत्रातिशयोक्तौ रूपकविशे- षणं रूपके दार्शितानां विधानामिहापि संभवोऽस्तीत्यतिदेशेन प्रदर्शनार्थम् । तेनानाप्यमेदातिशयोक्तिस्ताप्यातिशयोक्तिरिति कैबिंध्यं दृष्टव्यम् । तत्रा- प्याधिक्यन्यूनताविभागश्चेति सर्वमनुसंधेयम् ॥ यथावा- सुधाबद्धग्रासैरुपवनचकोरैरनुसृतां किरज्योत्स्नामच्छां लवलिफलपाकरणयिनीम्। उपनाकाराने प्रहिणु नयने तर्कय मना- गनाकाशे कोऽयं गलितहरिणः शीतकिरणः ॥ नायिकाशवर्णनमिदम् । गगने सूक्ष्मतया तदुर्लक्ष्ये मध्ये काप्यनिर्वचनीयशो- भा वापी तद्वद्गम्भीरा नाभिः स्फुरति शोभते । तत्परं तदूर्वभागे ऐन्द्रनीली इन्द्रनीलघटिता सूक्ष्मपद्या सरणिस्तद्वच्छयामा रोमावलिः स्फुरतीत्यनुज्यते । किंभूता । काञ्चननिर्मिता सोपानपहिं तत्सदशी त्रिवलीमधिगतवती प्राप्तवती । तथा अग्रे तदूर्ध्वदेशे शैलौ तद्वत्तुङ्गविशालौ कुचौ स्फुरत इति विभक्तिविपरिणा- मेन संबध्यते । कीदृशौ । सुकृतिनां पुण्यकृतां मुलभी सुलभगमनौ सुलभौ च । पुनः कीदृशौ । चन्दनतरुभिः चन्दनपङ्केन चाच्छन्नो व्याप्तो देशो ययोस्खयाभू- तौ। तत्रत्यानां तदाश्लिष्टानां च सुधांशोस्तद्वदाहादकस्य मुखस्य संनिधानादमृत तद्वदावाद्यमधरमाधुर्य सुलभमित्यन्वयः। विधानां मेदानाम् । इतीत्यस्य प्रद- र्शनार्थमित्यनेनान्वयः ॥ अतिदेशेनेति ॥ सादृश्येनेत्यर्थः । मुख्यरूपकासेद- स्यातिशयोक्तावभावाद्र्पकपदं रूपकसदृशपरम् । षण्मासमनिहोत्रं जुह्वति' इत्य- त्राग्निहोत्रपदबद्धर्मातिदेशकमित्याशयः । आधिक्यन्यूनतेलत्रानुभयोक्तरुकोदा- हरणेषु प्रसिद्धतरवादनुपादानं बोध्यम् । यत्त्वत्र कैश्चिदुक्तं विषयिवाचक्रपदस्य विषये साध्यवसानलक्षणायाः शक्यतावच्छेदकमात्रप्रकारकलक्ष्यविशेष्यकबोध- कत्वं कार्यतावच्छेदकम् । एवंच निगरणे सर्वत्र विषयतावच्छेदकधर्मरूपेणैव विष- यस्य भानं न विषय्यमिन्नत्वेनेति स्थितेऽभेदातिशयोक्तिस्ताद्भूप्यातिशयोक्तिरिति दैविध्यमयुक्तमिति, तत्प्रोडिविलसितम् । शक्यतावच्छेदकस्य लक्ष्ये पूर्वमप्रतीत- स्वेन तद्विशिष्टतया लक्षणाया असंभवात् , यद्धर्मविशिष्टे शक्यसंबन्धग्रहस्तद्धर्म- प्रकारकलक्ष्योपस्थितेः समानप्रकारकशाब्दबोधे हेतुलालक्षणापरिहार्याया अनु- पपत्तेस्तवस्थत्वाच्च । एक्मपि तात्पर्यवशात्तादृशबोधाङ्गीकारे तद्वशादेव शक्यामे- दप्रकारकबोधेऽपि बाधकाभावान्मात्रपदेन विषयतावच्छेदकस्यैव ब्यावर्तनादिति दिक् ॥ सुधाबद्धति ॥ विद्धशालभजिकाख्यायां नाटिकायां स्फटिकमाकारशि- खरगतां मृगाकावलीमालोकयतो राज्ञो विदूषकं प्रत्युक्तिरियम् । उपप्राकाराग्रं प्रा- कारागसमीपे नयने प्रहिणुप्रेरय । मनाक ईषत्तय । अनाकाशे अनन्तरिक्षे कोऽयं शीतकिरणश्चन्द्र इति मुखे चन्द्रगतालादकारिलरूपताद्रूप्याध्यवसाचम् । कीदृशः ।