सामग्री पर जाएँ

पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०
कुवलयानन्दः । [ अतिशयोक्त्यलंकारः १३


 इत्यन्न कोऽयमित्युत्तस्या प्रसिद्धाभ्देचस्त्रस उत्कर्षश्च गर्भितः । एवमन्यत्राप्यूहनीयम् ॥ ३६॥

[]यद्यपहुतिगर्भत्वं सैव सापह्नवा मता।
त्वत्सूक्तिषु सुधा राजन्भ्रान्ताः पश्यन्ति तां विधौ ॥ ३७॥

 अत्र त्वत्सूक्तिमाधुर्यमेवामृतमित्यतिशयोक्तिश्चन्द्रमण्डलस्थभमृतं न भवतीत्यपहुतिगर्भा ॥ यथावा---

मुक्ताविद्रुममन्तरा मधुरसः पुष्पं परं धूर्वहं ।
 प्रालेयधुतिमण्डले खलु तयोरेकासिका नार्णवे ।
तच्चोदञ्चति शङ्खभूर्ध्नि न पुनः पूर्वांचलाभ्यन्तरे
 तानीमानि विकल्पयन्ति त इमे येषां न सा दृक्पथे ॥


गलितक्ष्च्युतो हरिणो यस्मात्तथाभूतस्तेन निष्कलङ्कतयोत्कर्षाभिव्यक्तिः । पुनः कीदृक् । सुधायां बद्धो ग्रासस्तदभिलाषो यैस्तैरुपवनसंबन्धिभिश्चकोरैरनुसता लवल्याः फलपाकस्य प्रणयिनी सदृशीमच्छां स्वच्छांज्योत्स्ना तत्त्वेनाध्यवासितां कान्ति प्रभां किरन् । प्रसारयन्नित्यर्थः । लवली लताविशेषः 'हरफारेवडी' इति भाषाप्रसिद्धः । 'प्राकारो वरण: सालः' इत्यमरः । सभाबद्धग्रासैरिति क्वचित्पाठस्तत्राप्युक्त एवार्थः । नवलवलीति पाठे नवश्वासौ लवलिपाकश्चेत्यन्वयो बोध्यः । नन्विहाभेद विवक्षैव किं न स्यादत आह-अत्रेति ॥ कोऽयमित्यनेनानितित्वप्रकाशनात्प्रसिदस्य निर्ज्ञातत्वात्तद्वैलक्षण्यावगतिरिति भावः ॥ गर्भितो गलितेत्वादिविशेषणव्यङ्गयत्वेनाभिप्रेतः ॥ अन्यत्रापीति ॥ 'अनुच्छिष्टो देवैरपरिदलितो राहुदशनैः कलङ्केनाक्ष्लिष्टो न खलु परिभूतो दिनकृता। कुहूभिर्नो लिप्तो न च युवतिवकेण विजितः कलानाथः कोऽयं कनकलतिकायामुदयते ॥' इत्यादावित्यर्थः । अथवान्यत्रापि न्यूनतायामपीत्यर्थः । कोऽयं भूमिगतश्चन्द्र इत्यादावदिव्यत्वरूपन्यूनताप्रकाशनमूहनीयमिति भावः। ननूक्तोदाहरणेष्वयमिति विषयस्योपादानात्कथमतिशयोक्तिरिति चेदन्नाहुः । इदन्त्रस्य विषयिविशेषणत्वेन विवक्षायामतियोक्त्तिरेव। यद तु विषयविशेषणवत्वविवक्षा तदारूपकमिति व्यवस्था । अतएव प्रकाशकृता दशमे रूपकातिशयोक्त्यादिसंदेहसंकरे 'नयनानन्ददायीन्दोबिम्बमेतत्प्रसीदति' इत्युदाहृतमिति ॥ ३६ ॥ एनां विभजते--यद्यपहुतीति ॥ अपहृतिगर्भत्वं पर्यस्तापडतिगर्भत्वम् । सैव रूपकातिशयोक्तिरेव । तथाच सापहवत्वनिरपहक्लभेदेन द्विविधाऽतिशयोकिरिति भावः ॥ मुक्तेति ॥ तान्यनुभवैकवेद्यानीमानि वस्तूनि ते इमे जनाः विकल्पयन्ति सदसद्वेति विक- ल्पविषयाणि कुर्वन्ति येषां जनानां सा प्रक्रान्ता सुन्दरी दृक्पथे लोचनमार्गे नास्तीत्यन्वयः । तादृशसुन्दरीदर्शनशालिनस्तु विकल्पयन्तीति भावः । तानि कानि वस्तूनि तत्राह । मुक्ता मौक्तिकं विद्रुमं प्रवालं चान्तरा अनयोर्मध्ये म-


  1. यदापहुति'