पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८ कुवलयानन्दः। [अतिशयोक्त्यलंकारः १३ __इत्युत्प्रेक्षाध्यक्षकत्वेन परिगणितानां शब्दानां प्रयोगे वाघ्याः । तेषाम- प्रयोग गम्योप्रेक्षा। यथा-त्वत्कीर्तिधमणश्रान्ता विवेश स्वर्गनिम्नगाम् ॥ ३३ ॥ ३४ ॥३५॥ अतिशयोक्त्यलंकारः १३ रूपकातिशयोक्तिः स्यान्निगीर्याध्यवसानतः। पश्य नीलोत्पलद्वन्द्वानिःसरन्ति शिताः शराः॥३६ ॥ विषयस्य स्वशब्देनोल्लेखनं विना विषयिवाचकेनैव शब्देन ग्रहणं विषय- निगरणं तत्पूर्वक विषयस्य विषयिरूपतयाध्यवसानमाहार्यनिश्चयतस्सिन्सति रूपकातिशयोक्तिः । यथा नीलोत्पलशरशब्दाभ्यां लोचनयोः कटाक्षाणां च ग्रहणपूर्वकं तद्रूपताध्यवसानम् । यथावा- वापी कापि स्फुरति गराने तत्परं सूक्ष्मपद्या सोपानालीमधिगतवती काञ्चनीमैन्द्रनीली। जालादिभेदानां चमत्कारविशेषानाधायकलादप्रदर्शनमिति भावः ॥ इत्युत्प्रे- क्षेति ॥ इत्यनेनोत्प्रेक्षाबोषकत्वेनेत्यर्थः ॥ त्वत्कीर्तिरिति ॥ अत्रानुपात्तख- र्गममनविषया खर्गाप्रवेशतादात्म्योत्प्रेक्षा, विशेषणीभूतभ्रमणश्रान्तवरूपहेतू प्रेक्षा वा प्रतीयत इति बोध्यम् ॥ ३३ ॥ ३४ ॥ ३५ ॥ इति उत्प्रेक्षा- प्रकरणम् ।। १२॥ अतिशयोक्ति लक्षयति-रूपकातिशयोक्तिरिति ॥ ग्रहणमुपस्थापनम् ॥ विषयिरूपतयेति ॥ विषयिणो रूपमस्य तस्य भावस्तत्ता तयेत्यर्थः । रूपं चा- मेदताद्रूप्यान्यतरत् ॥ तस्मिन्सतीति ॥ सप्तमीसमर्थात्तसिरित्यभिप्रायेण । एवं चानुपातविषयधर्मिकाहार्यनिश्चय विषयाभूतं विषय्यमेदताद्रूप्यान्यतरद्रूपकातिश- योक्किरिति लक्षणं बोध्यम् । अत्र रूपकवारणायानुपात्तेति । अयमेव च रूप- कादस्यां विशेषोऽतिशय इत्युच्यते । भ्रान्तिवारणायाहायेति । उत्प्रेक्षावारणाय निश्चयेति।नीलोत्पलेति। अत्र नीलोत्पलपदात्साध्यवसानलक्षणया शक्यल- क्ष्योभयानुगतकान्तिविशेषादिपुरस्कारेणोपस्थिते कामिनीनयने शक्त्युपस्थितस्य नीलोत्पललविशिष्टस्यामेदसंसर्गेणान्वयः। शक्त्युपस्थितयोः कृतीष्टसाधनतयो- रिव शक्तिलक्षणाभ्यामुपस्थितयोरप्येकपदार्थयोतात्पर्यवशेनान्वयानीकारे बाध- काभावात् । एवंच नीलोत्पलाभिन्न कान्तिविशेषवद्धन्द्वादिति बोधादियमभेदातिश- योतिरित्युच्यते । नचैवं सति रूपकाद्वलक्षण्य मिति वाच्यम् । रूपके विषयिमे दव्याप्यस्य विषयतावच्छेदकस्य भानेन वैलक्षण्यस्य स्फुटलात् । यदाखभेदभा- ने न तात्पर्य किंतु भेदभाने तदा कान्तिविशेषादिरूपताद्रूप्यस्यैव बोधात्ताद्रूप्या- तिशयोक्तिर्वक्ष्यत इति बोध्यम् ॥ वापीति ॥ मध्यभागमारभ्य मुखपर्यन्त INATEx.४४:24........... M