सामग्री पर जाएँ

पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८
कुवलयानन्दः। [अतिशयोत्तलंकारः १३


 इत्युत्प्रेक्षाध्यञ्जकत्वेन परिगणितानां शब्दानां प्रयोगे वाघ्याः । तेषामप्रयोग गम्योप्रेत्प्रेक्षा।

 यथा-त्वत्कीर्तिधमणश्रान्ता विवेश स्वर्गनिम्नगाम् ॥ ३३ ॥ ३४ ॥३५॥


अतिशयोक्त्यलंकारः १३

रूपकातिशयोक्तिः स्यान्निगीर्याध्यवसानतः।
पश्य नीलोत्पलद्वन्द्वान्निःसरन्ति शिताः शराः॥३६ ॥

 विषयस्य स्वशब्देनोल्लेस्वनं विना विषयिवाचकेनैव शब्देन ग्रहणं विषयनिगरणं तत्पूर्वक विषयस्य विषयिरूपतयाध्यवसानमाहार्यनिश्चयतस्सिन्सति रूपकातिशयोक्तिः । यथा नीलोत्पलशरशब्दाभ्यां लोचनयोः कटाक्षाणां च ग्रहणपूर्वकं तद्रूपताध्यवसानम् । यथावा-

वापी कापि स्फुरति गगने तत्परं सूक्ष्मपद्या
सोपानालीमधिगतवती काञ्चनीमैन्द्रनीली।


जात्यादिभेदानां चमत्कारविशेषानाधायकत्वादप्रदर्शनमिति भावः ॥ इत्युत्प्रेक्षेति ॥ इत्यनेनोत्प्रेक्षाबोषकत्वेनेत्यर्थः ॥ त्वत्कीर्तिरिति ॥ अत्रानुपात्तखर्गममनविषया खर्गाप्रवेशतादात्म्योत्प्रेक्षा, विशेषणीभूतभ्रमणश्रान्तवरूपहेतूत्प्रेक्षा वा प्रतीयत इति बोध्यम् ॥ ३३ ॥ ३४ ॥ ३५ ॥ इति उत्प्रेक्षाप्रकरणम् ॥ १२॥

 अतिशयोक्ति लक्षयति---रूपकातिशयोक्तिरिति ॥ ग्रहणमुपस्थापनम् ॥ विषयिरूपतयेति ॥ विषयिणो रूपमस्य तस्य भावस्तत्ता तयेत्यर्थः । रूपं चामेदताद्रूप्यान्यतरत् ॥ तस्मिन्सतीति ॥ सप्तमीसमर्थात्तसिरित्यभिप्रायेण । एवं चानुपातविषयधर्मिकाहार्यनिश्चय विषयाभूतं विषय्यमेदताद्रूप्यान्यतरद्रूपकातिशयोक्किरिति लक्षणं बोध्यम् । अत्र रूपकवारणायानुपात्तेति । अयमेव च रूपकादस्यां विशेषोऽतिशय इत्युच्यते । भ्रान्तिवारणायाहायेति । उत्प्रेक्षावारणाय निश्चयेति।नीलोत्पलेति। अत्र नीलोत्पलपदात्साध्यवसानलक्षणया शक्यलक्ष्योभयानुगतकान्तिविशेषादिपुरस्कारेणोपस्थिते कामिनीनयने शक्त्युपस्थितस्य नीलोत्पललविशिष्टस्यामेदसंसर्गेणान्वयः। शक्त्युपस्थितयोः कृतीष्टसाधनतयोरिव शक्तिलक्षणाभ्यामुपस्थितयोरप्येकपदार्थयोतात्पर्यवशेनान्वयानीकारे बाधकाभावात् । एवंच नीलोत्पलाभिन्न कान्तिविशेषवद्धन्द्वादिति बोधादियमभेदातिशयोतिरित्युच्यते । नचैवं सति रूपकाद्वलक्षण्य मिति वाच्यम् । रूपके विषयिमेदव्याप्यस्य विषयतावच्छेदकस्य भानेन वैलक्षण्यस्य स्फुटलात् । यदाखभेदभाने न तात्पर्य किंतु भेदभाने तदा कान्तिविशेषादिरूपताद्रूप्यस्यैव बोधात्ताद्रूप्यातिशयोक्तिर्वक्ष्यत इति बोध्यम् ॥ वापीति ॥ मध्यभागमारभ्य मुखपर्यन्त