अत्र विवस्वता कृतं स्वकिरणैः सह जनलोचनानां नयनमसदेव रात्रावान्ध्यंप्रति हेतुत्वेनोत्प्रेक्ष्यत इत्यसिद्धविषया हेतत्यक्षा,
|
पूरं विधुर्वर्धयितुं पयोधेः शङ्केयमेमा मांग र्ङ्कमणि कियन्ति । |
अत्र चन्द्रेण कृतं समुद्रस्य बृंहणं सदेव तदा तन कृतिस्य चन्दकान्तद्रा वणस्य कोकाङ्गनावाप्पत्रावणस्य च फलत्वेनोप्रेक्ष्यत इति सिध्दविपया लोत्प्रेक्षा।
|
रथस्थितानां परिवर्तनाय पुरातनानामिव वाहनानाम् । |
अन्नोत्तरायणस्याश्वपरिचर्तनमसदेव फलत्वेनोत्प्रेक्ष्यत इत्यसिद्धविषया फलोत्प्रेक्षा। एता एबोत्प्रेक्षाः ।
|
'मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः । |
लेन परकीयाभिर्गोभिर्मिश्राः स्वीया गावो नीयन्ते तथा गोपदवाच्यबसाजात्येन मिक्ष्निता विवखतापि नीता इवेत्यर्थः । खलु संभावनायाम् । तेन नयनेन हेतुना इदमान्ध्यं न खन्धकारैरेित्यन्वयः । 'गौः स्वर्गे च बलीवर्दै रश्मौ च कुलिशे पुमान् । स्त्रीसौरमेयीहरबाणदिग्वाग्भूष्वप्सु भूम्नि च ॥ इति मेदिनी। अत्र चानायिषतेवेति विषयोत्प्रेक्षणपूर्वकं तस्य हेतुत्वेनोत्प्रेक्षणमिति पूर्वस्माद्धेदः । एवं पूर्वत्र इच्छयेति गुणरूपो हेतुरिह तुं क्रियारूप इत्यपि द्रष्टव्यम् । अत्र चोत्प्रेक्षाद्वयसत्वेऽपि हेतूत्प्रेक्षायाः प्राधान्यात्तत्त्वेनैव व्यपदेशो न तु खरूपोत्प्रेक्षात्वेन । तस्या अङ्गत्वात् । एवमन्यत्रापि बोध्यम् ॥ पूरमिति ॥ अयं विधुश्चन्द्रः पयोधेः पूरं वर्धयितुमेणाङ्कमणि चन्द्रकान्तं कियन्ति लोकोक्त्या अपरिमितानि पयांसि दोग्धीति शङ्के । तथा प्रियैः पतिमिविप्रयोगे वियोगे सति सशोकानां कोकाङ्गनानां नयने कर्मभूते । कियन्ति पयांसि दोग्धीति शङ्क इत्यन्वयः। दुहेर्द्विकर्मकखादेणाङ्कमणि मिति द्वितीया। एवं नयने इत्यत्रापि । मध्यः किमित्यत्रैकस्य वद्धखस्य फलस्वेन कुचधृतेरुत्प्रेक्षणमिह तु द्रावणलावणयोर्द्वयोः फलत्वेन पूरवर्धनस्य तदिति भेदः । ब्रहणं वर्धनम् । तदा वर्धनकाले। तेन चन्द्रेण ॥ रथस्थितानामिति ॥ रविः रथे स्थितानां नियुक्तानां पुरातनानां वाइनानामवानां परिवर्तनायेव तुरगोत्तमानामुत्पत्तिभूमावुत्तरस्यां दिशि प्रतस्थ इत्यन्वयः । प्रायोऽजमित्यत्रैक्यस्य गुणस्य फलत्वेनोत्प्रेक्षणमिह तु परिवर्तनक्रियाया इति भेदः । नन्वलंकारसर्वस्खकारादिभिरन्येषामपि जात्यादिभेदानामुक्तलात्कुतस्तेन प्रदर्शिता इत्याशङ्ख्याह-एता पवेति ॥ उक्तभेदा एवेत्यर्थः । उत्प्रेक्षा इत्यनन्तरं चमत्कारविशेषप्रयोजिका इति शेषः। तथाच