पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अपह्नुत्यलङ्कारः ११]
२९
अलंकारचन्द्रिकासहितः ।

अपह्नुत्यलंकारः ११ अलंकारचन्द्रिकासहितः । २९


यदाह- .

    न पद्मं मुखमेवेदं न भृङ्गौ चक्षुषी इमे ।
    इति विस्पष्टसादृश्यात्तत्त्वाख्यानोपमा मता ॥ २९ ॥ इति ॥

छेकापह्नुतिरन्यस्य शङ्कातस्तथ्येह्नवे ।।
                     प्रजल्पन्मत्पदे लग्नः कान्तः किं न हि नूपुरः ॥ ३० ॥

 कस्यचित्कंचित्प्रति रहस्योक्तावन्येन श्रुतायामुक्तेस्तात्पर्यन्तरवर्णनेन तथ्य- निह्नवे छैकापह्नुतिः । यथा नायिकया नर्मुसखीं प्रति प्रजल्पन्मत्पदे लग्न इति स्वनायकवृत्तान्ते निगद्यमाने तदाकर्ण्य कान्तः किमिति शङ्कितवतीमन्यां प्रति नूपुर इति निह्नवः।

सीत्कारं शिक्षयति व्रणयत्यधरं तनोति रोमाञ्चम् ।
नागरिकः किं मिलितो नहि नहि सखि हैमनः पवनः ॥

इदमर्थयोजनया तथ्यनिह्नवे उदाहरणम् ।।


प्रसक्तिपूर्वकत्वादिति भावः । मेने इत्यस्वरसोद्भावनम् । तद्बीजं तूपमाबोधकस्ये- वादेरसत्त्वेऽपि तदुपगमे रूपकस्याप्युपमात्वं स्यादिति स्पष्टमेव ॥ २९ ॥ छेकापह्नुतिरिति ॥ छेको विदग्धस्तत्कृतापह्नुतिश्छेकापह्नुतिरिति लक्ष्य निर्देशो वाक्यान्यथायोजनहेतुकः शङ्किततात्त्विकवस्तुनिषेध इति लक्षणम् । अन्यस्य शङ्कात इत्यन्यशङ्काया निवर्तनीयत्वेन हेतुतया व्यपदेशः । संतापात्स्नातीतिवत्। अत्रच शुद्धापह्नुतिवारणायाद्यं विशेषणम् ।"मम किल श्रुतिमाह तदर्थिकाम्" इत्यधिकृतद्रूप्यरूपकवारणाय शङ्कितेति । नचानेनैव शुद्धापह्नुतिवारणाद्वाक्येत्यादि व्यर्थमिति वाच्यम् । “कस्य वा न भवेद्रोषः प्रियायाः सव्रणेऽधरे। सभृङ्गं पद्ममाघ्रासीर्वारितापि मयाधुना ॥' इति व्याजोक्तावतिप्रसङ्गवारकत्वेन तत्सार्थ- क्यात्। यद्वक्ष्यति---छेकापह्नुतेरस्याश्चायं विशेषो यत्तस्यां वचनस्यान्यथानयने नापह्नवः । अस्यामाकारस्य हेत्वन्तरवर्णनेन गोपनमति तथ्यनिहवे इति तात्वि- कनिषेधे इत्यर्थः । नूपुरो मञ्जीरः । “मञ्जीरो नूपुरोऽस्त्रियाम्" इत्यमरः । नर्मस- खी क्रिडासखी । अत्र कान्तपरायाः ‘प्रजल्पन्मत्पदे लग्नः' इत्युक्तेनूपुरतात्पर्ये- कत्वर्णनेन कान्तत्वापहन्वो मुख्यो नूपुराभेदप्रतिपत्तिस्तु तदङ्गमिति बोध्यम् ।। सीत्कारभिते ।। सीत्कारं तदनुकारिमुखध्वनिं शिक्षयति, अधरमधरोष्ठं व्रणयति व्रणोऽस्यास्तीति व्रणी व्रणिनं करोतीत्यर्थे ‘तत्करोति तदाचष्टे' इति णिच् । तथा रोमाञ्चं तनोति विस्तारयतीति वाक्यत्रयं नागरिकाभिप्रायेण प्रियसखीं प्रति कयाप्युक्तं तदाकर्ण्य नागरिकः किं मिलित इति शङ्कितवतीमन्यां प्रति तच्छङ्कानिवृत्तये नहीत्यादिना हैमन्तिकपवनपरत्ववर्णनेन तात्विकस्य नागरिकस्यापह्नवः । सीत्कारशिक्षादिकर्तृत्वस्य नागरिकइव पवनेऽपि सत्त्वात् । तदाह-अर्थयोजनयेति॥ विवक्षिताविवक्षितसाधारणस्यार्थस्याविवक्षितार्थसंबन्धित्ववर्णनयेत्यर्थः । १ ‘स्तस्य निहवे',