पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२८ कुवलयानन्दः । [ अपहृत्यलंकारः ११

               भ्रान्तायपह्नुतिरन्यस शङ्कायां भ्रान्तिवारणे।
               तापं करोति सोत्कम्पं ज्वरः किं न सखि स्मरः॥ २९ ।।

अत्र तापं करोतीति स्मरवृत्तान्ते कथिते तस्य ज्वरसाधारण्यादृजुबुद्ध्या सख्या ज्वरः किमिति पृष्टे न सखि स्मर इति तत्वोक्त्या भ्रान्तिवारणं कृतम् । यथावा-

    नागरिक समधिकोञ्चतिरिह महिषः कोऽयमुभयतःपुच्छः।
    नहि नहि करिकलभोऽयं शुण्डादण्डोऽयमस्य न तु पुच्छम् ॥
 इदं संभवद्भ्रान्तिपूर्विकायां भ्रान्तापह्नुतावुदाहरणम् ॥
 कल्पितभ्रान्तिपूर्वा यथा
     जटा नेयं वेणीकृतकचकलापो न गरलं
      गले कस्तूरीयं शिरसि शशिलेखा न कुसुमम् ।
     इयं भूतिर्नाङ्गे प्रियविरहजन्मा धवलिमा
      पुरारातिभ्रान्त्या कुसुमशर किं मां प्रहरसि ॥
अत्र कल्पितभ्रान्तिर्जटा नेयमित्यादिनिषेधमात्रोन्नेया पूर्वप्रश्नाभावात्।

दण्डी त्वत्र तत्वास्त्यानोपमेत्युपमाभेदं मेने।


पभेदादित्यर्थः॥२८॥ पूर्वापह्नुतिवच्छुद्धापह्नुतिवत् द्वैविध्यं शुद्धपर्यस्तापह्नुतिर्हेतुपर्य- स्तापह्नुतिरित्येवं द्विप्रकारत्वम्॥ भ्रान्तापह्नुतिरिति । अन्यस्य प्रकृतस्य भ्रान्ति- वारणे । वार्यतेऽनेनेति वारणम् । तथाच भ्रान्तिवारके तत्त्वाख्याने सतीत्यर्थः । भ्रान्तं भ्रमः । भावे क्तः। भ्रान्त्यपह्नुतिरित्यर्थः। एवंच तत्वकथनहेतुकभ्रान्ति- विषयनिषेधो भ्रान्तापह्नुतिरिति लक्षणं बोध्यम् । तस्य तापकारित्ररूपस्मरवृत्तान्त्स्य। नागरिकेति ॥ नगरे भवो नागरिकस्तं प्रति ग्रामीणस्य प्रश्नः । समधिका पश्वन्तरेभ्य उन्नतिरुच्चता यस्यैवंभूत उभयतो मुखपृष्ठभागयोः पुच्छं यस्यैवंभूतश्च कोऽयं महिष इति । नहिनहीत्युत्तरम् । महिष इत्यनुषज्यते । अयं कारिकलभः करिशावकः । 'कलभः करिशावकः' इति कोशात्कलभ इत्येतावतैव . सिद्धे करिपदमुत्कृष्टकरिबोधार्थम् । अयमस्य शुण्डादण्डो न तु पुच्छमिति । पुच्छ इति पाठोऽप्यर्धर्चादित्वात्साधुरेव । अप्रयुक्तत्वं तु तत्र परं विचार्यमिति पूर्वोदाहरणे संदेहरूपभ्रान्तिविषयज्वरत्वापह्नवः । ज्वरः किमिति प्रश्नेन तद्वि- षयसंदेहावगमात् । इह तु महिषत्ननिश्चयरूपभ्रान्तिविषयस्य महिषत्वस्येति ततो भेदः ॥ जटेति ॥ विरहिण्या इयमुक्तिः । हे कुसुमशर, पुरारातेर्हरस्य भ्रान्त्या मां किं कुतः प्रहरसि पीडयसि । यतो नेयं जटा किंतु वेणीकृतः अवेणी वेणी संपद्यते तथा कृतः कचानां कलापः, तथा गले गरलं नैतदपि त्वियं कस्तूरी, एवं शिरसि नैषा शशिलेखा किंतु कुसुमम् , तथा इयमङ्गे भूतिर्भस्म न भवति, परंतु प्रियविरहाञ्जन्म यस्यैवंभूतो धवलिमा पाण्डिमेति । 'अवर्ज्यो बहुव्रीहिर्व्यधि- करणो जन्माद्युत्तरपदः' इति वामनसूत्राध्यधिकरणोऽपि बहुव्रीहिर्न दुष्टः ॥ कल्पितेति ।। कुसुमशरे उत्प्रेक्षितेत्यर्थः ॥ निषेधमात्रोन्नेयेति ॥ निषेधस्य