पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०
[उपमेयोपमालङ्कारः १
कुवलयानन्दः ।

स्वेन साधर्म्य नान्वेतीति व्युत्पतेः । अनन्वयिनोऽप्यर्थस्थाभिधानं सद्दशा- न्तरव्यवच्छेदेनानुपमत्वद्योतनाय । इन्दुरिन्दुरिव श्रीमानित्युक्ते श्रीमत्वेन चन्द्रस्य नान्य: सद्दशोऽस्तीति सदृशान्तरव्यवच्छेदो लक्ष्यते । ततश्च स्वेनापि सादृश्यासंभवादनुपमेयत्वे पर्यवसानम् ॥ यथावा- गगनं गगनाकार सागरः सागरोपमः । । रामरावणयोर्युद्धं रामरावणयोरिव ॥ पूर्वोदाहरणे श्रीमत्त्वस्य धर्मस्योपादानमस्ति । इह तु गगनादिषु वैपुल्या देर्धर्मस्य तन्नास्तीति विशेषः ॥ १० ॥

उपमेयोपमालंकारः ३

{{block center|{{bold|<poem>पर्यायेण द्वयोस्तच्चेदुपमेयोपमा मता।

धर्मोऽर्थ इव पूर्णशीरर्थो धर्म इव त्वयि॥


नान्वेतीति । न संवध्यत इयर्थः । साधर्म्यस्य मैदघटितत्वादिति भावः। नन्वेवं सत्यसंबद्धप्रलापत्वापत्तिरित्यत आह–अनन्वयिनोऽपीति ॥ बाधितस्यापी- त्यर्थ:। अर्थस्य साधर्म्यस्य । अभिधानमाहार्यारोपरूयतया प्रतिपादनं । सद्रुशान्त- xब्बदच्छेदेन सुदृशान्तरव्यावृत्तिबोधद्वारेण । एतदेव विशदयति–इन्दुरित्या- दिना । इत्थंच साद्रुशान्तरव्यावृत्तिसूचनद्वारानुपत्वद्योतनरूपप्रयोजनवत्त्वादा- पाततो रुद्ररोदनार्थवादवारमात्रतया सादृश्यप्रतिपादनेऽपि नासंबद्धप्रलापता- पत्तिरित भावः । उदाहरणान्तरमाह- यथावेति । गगनाकारं गगनसदृशम्। इत्रेत्यत:प्राक् युद्धमित्याहार्यम् । उदाहरणान्तरप्रदर्शने बीजमाह-यूर्वोदा- हरणेति वैपुल्यादेरित्यादिपदाद्गाम्भीर्यंदारुणत्वयो: संग्रहः ॥ १० ॥ इत्यन- न्वयालंकारप्रकरणम् ॥ २॥ ।

 अथोपयोपमां लक्षयति--पर्यायेणेति । अयौगपद्येनेत्यर्थः । वाक्यभेदे- नैति यावत् । तत् उपमानोपमेयत्वं । विवक्ष्यत इति शेषोऽत्रापि बोध्यः । उपमेयोपमेति लक्ष्यनिर्देशः । उपमेयेनोपमेति व्युत्पत्तेः । धर्मोऽर्थ इवेत्युदाहरणम् ।अर्थो धनम् । पूर्णश्रीः पूर्णसमृद्धिः । अत्र च धर्मार्थयोर्द्वयोर्वाक्यबेदेनोपमानत्व मुपनेयत्वं च वर्णितम् । तत्राद्यवाक्येऽर्थस्योपमानत्वं धर्मस्योपमेयत्वम् । द्वितीये तु तद्विपर्यातेन धर्मस्योपमानत्वमर्थस्योपमेयत्वमिति लक्षणसमन्वयः। उपमानोप- मेलमात्वमात्रोक्तावनन्वयेऽदिव्याप्तेर्द्वयोरित्युक्तम् । एवमपि ‘समत्वं शरदि प्रापुरहो कुमुदतारकाः' इत्युभयविश्रान्तसादृश्यादुपसायामतिव्याप्तिः। तत्र द्वयोः कुमुदतारकयोः सादृश्याश्रयत्वरूपोपमेयत्वस्येव तत्प्रतियोगितरूपस्योपमानत्वस्याप्यर्थतः प्रतीतेरतः पर्यायेणेत्युक्तम् । ननु ‘भणितिरिव मतिर्मतिरिवं चेष्टा चेष्टेव कीर्तिरतिविमला' इति रशनोपमायामतिव्याप्तिः । तत्र द्वयोर्मतिचेष्टयोर्वाक्यमे- देनोपमानोपमेयत्ववर्णनादिति चेन्न । द्वयोरियनेन परस्परमुपमानोपमेयत्वस्य विवक्षितत्वात् । अन्यथा पर्यायपदेनैवानन्दयवारणे तद्वैयर्थ्यापत्तेरेति संक्षेपः ॥