पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अनन्वयालंकारः २]
अलंकारचन्द्रिकासहितः ।

नात्प्रत्ययार्थोपमायामुपमानलोपः । समासार्थोपमायां वाचकोपमानलोपः । सर्वोऽप्ययं लोपश्छप्रत्ययविधायकशास्त्रकृतः । अवितर्कितसंभवमिति साधा रणधर्मस्यानुपादाने प्रत्ययार्थोपमायां धर्मोपमानलोपः । समासार्थोपमायां धर्मोपमानवाचकलोप इति सूक्ष्मया दृष्ट्यावधारितव्यम् । एतेषामुदाहरणा- न्तराणि विस्तरभयान्न लिख्यते ॥ ७ ॥ ८ ॥ ९ ॥

अनन्वयालंकारः २

उपमानोपमेयत्वं यदेकस्यैव वस्तुनः ।
इन्दुरिन्दुरिव श्रीमानित्यादौ तदनन्वयः ।। १० ।।

 एकस्यैव वस्तुन उपमानोपमेयत्ववर्णनमनन्वयः। वर्ण्यमानमपि स्वस्य


स्येत्यर्थः । इदं च काकागमनमिव तालपतनमिवेति महाभाष्यगतविग्रहवाक्य- विरोधशङ्कापरिहारायोक्तम् । समागमस्य तादृशक्रियाद्वयाभिन्नत्वेनोक्तयुक्या तस्योक्तार्थ एव पर्यवसानात् विशिष्टोपमायां विशेषणोपमावगतिवत्मासमागमोप- मायामपि तदवयवक्रिययोर्यथायोगं गम्यमानामुपमामभिप्रेत्य महाभाष्यकृतां तादृशविग्रहवाक्यप्रणयनमित्याशयः ॥ धर्मस्यानुपादान इति ॥ तत्स्थाने अभवकिं ब्रवीमि ते' इति पाठ इति भावः ।। ७ ।। ८ ।। ९ ।।

इति श्रीमत्तत्सदुपाख्यराभभट्टसूरिवरात्मजवैद्यनाथविरचितायामलंकारचन्द्रि-
काख्यायां कुवलयानन्दव्याख्यायामुपमाप्रकरणं संपूर्णम् ॥ १ ॥


। यद्यप्युपमाननिरूपणानन्तरं तन्मूलालंकारेषु संभवत्सादृश्योपमेयोपमैच प्रथमं निरूपयितुमुचिता न त्वारोपितसादृश्यनिबन्धनोऽनन्वयस्तथापि तं द्वितीयसदृश- व्यवच्छेदफलकतया तृतीयसदृशव्यवच्छेदफलिकामुपमेयोपमामपेक्ष्य शीघ्रोपस्थि- तिकमभिप्रेम प्रथमं निरूपयति --उपमानोपमेयत्वमिति । उपमानत्वमुपमें- यत्वं चेत्यर्थः । द्वन्द्वान्ते श्रूयमाणत्वात् । विवक्ष्यत इति च शेषः । एवं चैकखैव वस्तुनो यदुपमानवमुपमेयत्वं च विवक्ष्यते तदनन्वय इत्यन्वयः । असंभवशङ्का- निरासाय मध्ये उदाहरणोक्तिः। ननूक्तलक्षणस्य ‘भणिचिरिव मतिमेतिरिव चैष्टा इत्यादिरशनोपमायामतिव्याप्तिः । तत्र मत्यादेरेकस्यैव वस्तुन उपमानत्वस्योपमेय त्वस्य च वर्णनात् । अथैकस्य वस्तुनो यदेकनिरूपितमुपमानामुपमेयत्वं चेति विवक्षितमेकपदस्यावृत्तिकल्पनात् । इत्थंच रशनोपमायां मत्यादेश्चेष्टादिनिरूपितयुपमानत्वं भणित्यादिनिरूपितं तूपमेयत्वमित्यैकनिरूपितोपमानौपमेयत्वविर- हान्नातिव्याप्तिरित्युच्यते तदा ‘खमिव जलं जलमिव खम्” इत्युपमेयोपमाया- सतिव्याप्तिः। तत्रैकस्यैव वस्तुनो गगनस्यैकजलनिरूपितस्योपमानत्वस्योपमेयत्वस्य च वर्णनादिति चेन्मैवम् । एकस्यैवेति विरोधद्योतकैवकारबलेन खाश्रयनिरूपित- योरुपमानोपमेयत्वयोर्लाभेन क्वाप्यतिप्रसङ्गाभावात् । अस्ति हि इन्दुरिन्दुरिव’ इत्यनन्वये उपमानत्वमुपमेयत्वं च स्वाश्रयेन्दुनिरूपितं नतु रशनोपमायामुपमेयो पुमायां वेति संक्षेपः । अनन्वयपदप्रवृत्तिनिमित्तमाह-वर्ण्यमानमपीति ॥ कुव. ३