द्वयोः पर्यायेणोपमानोपमेयत्वकल्पनं तृतीयसदृशव्यवच्छेदार्थम् ।धर्मार्थयो:कस्यचित्केनचित्सादृश्ये वर्णिते तस्याप्यन्येन सादृश्यमर्थसिद्धमपि भु- रूतो वर्ण्यमानं तृतीयसदृशव्यवच्छेदं फलति ॥ यथावा-
खमिव जलं जलमिव |
पूर्वत्र पूर्णश्रीरिति धर्म उपात्तः । इह निर्मलत्वादिधर्मो नोपात्त इति भेदः। उदाहरणद्वयेऽपि प्रकृतयोरेवोपमेयत्वकल्पनम् । राज्ञि धर्मार्थसमृद्धेः शरदि गगनसलिलादिनैर्मल्यस्य च वर्णनीयत्वात् । प्रकृताप्रकृतयोरष्येषा संभवति । यथा-
गिरिरिव गजराजोऽयं गजराज़ इवोच्चकैर्विभाति गिरिः । |
प्रतीपालंकारः ४
प्रतीपमुपमानस्योपमेयत्वप्रकल्पनम् । |
प्रसिद्धोपमानोपमेयभावः प्रातिलोम्यात्प्रतीपम् । यथावा--
ननूपमाप्रतीपोभयरूपाया उपमाद्वयरूपाया वा उपमेयोपमाया अलंकारान्तरत्वे किं बीजमित्यत आह---द्वयोरिति ॥ तथा चार्थविशेषद्योतकतया चमत्कृति-वैलक्ष्ण्यमेव तत्र बीजमिति भावः । कथं तृतीयसदृशव्यवच्छेदलाभस्तत्राह-धुर्मार्थयोरिति ॥ धर्मार्थयोर्मध्य इत्यर्थः। मुखतः शब्देन । तथाच ‘प्राप्तस्य पुनर्वचनं तदितरपरिसंख्यार्थम्' इति न्यायादिहापि तृतीयसदृशव्यावृत्तिलाभ इति भावः ।। खमिवेति ॥ शरद्वर्णनमिदम् । खमाकाशमिव जलं कालुष्यापगमेन निर्मलत्वातिशयात् । शेषं स्पष्टम् । निर्मलत्वादीत्यादिपदेन शैत्यातिशयपरिग्रहः॥गिरिरिवेति । अत्र गजः प्रकृतः । अयमिति प्रकृतपरामर्शिसर्वनाम निर्दिष्टत्वात्। अत एवोपक्रमादग्रेऽप्यस्य मदधारेत्यन्वयो बोध्यः । अत्र पूर्वार्धे उच्चकैर्विभातीति समानधर्म उपात्तः । उत्तरार्धे च स्रवतीति स उक्त इति दिक्॥ ११ ॥ इत्युपमेयोपमाप्रकरणम् ॥३॥
प्रतीपमिति॥ प्रतीपमिति लक्ष्यनिर्देशः । ननूपमानोपमेयभावस्य वैवक्षिकत-
या मुखादेरप्युपमानत्वसंभवाचन्द्र इव मुखमित्युपमायातिव्याप्तिरित्यत आह- प्रसिद्धेति ॥ प्रसिद्धोपमानस्योपमेयभाव उपमेयत्वं प्रतीपं प्रतीपपदवाच्यम् । कुतः। प्रातिलोम्यात्प्रसिद्धोपमानप्रतिकूलत्वात् । उपमेयभावप्रातिलोम्यादित्यवि- सर्गपाठेऽपि प्रसिद्धोपमानस्य य उपमेयभावस्तस्य प्रातिलोम्यादुपमानप्रतिकूलत्वा- दुपमानस्योपमेयत्वकल्पनं प्रतीपमित्युच्यत इति व्याख्येयम् । नतु प्रसिद्धस्योपमा- १ 'मानस्याप्युपमेयत्व',