मावसंध्यलंकारः १०६
भावसंधिर्यथा--
|
एकाभूत्कुसुमायुधेषुधिरिव प्रव्यक्तपुङ्खावली |
अत्र रमणीप्रेमरणौत्सुक्ययोः संधिः प्रभुविषयभावस्थाङ्गम् ।
भावशबलालंकारः १०७
मावसबलं यथा---
|
क्वाकार्य शशलक्ष्मणः क्क च कुलं भूयोऽपि दृश्येत सा |
अत्र वितकौंत्सुक्यमतिस्मरणशङ्कादैन्यतिचिन्तानां शबलता विप्रलम्भशृङ्गारस्थाङ्ग्रम् ॥
प्रत्यक्षालंकारः १०८
प्रमाणालंकारे प्रत्यक्षं यथा-
|
क्रान्तकान्तवदनप्रतिबिम्बे भग्नबालसहकारसुगन्धौ। |
मत्प्रियो नलः पत्रिणा हंसेन पादेन विलिख्य अदर्शि दर्शितः ॥एकेति ॥ हे वीर, क्षणमात्रेण युद्धप्रस्थानाद्वावी यो विरहक्लेशस्तदसहिर्ष्णु लोलाक्षी दयितांं पश्यतखथा प्रौढसंग्रामाडम्बरमाकर्णयतश्च भवतः एका कपोलस्थली द्राक् शीघ्रं पुलकैः कुसुमायुधस्य मदनस्येषुधिस्तरुणीव अव्यक्ता पुङ्त्वावली शरपुखपतियंत्र तथाभूलभूत । अन्या द्वितीया जेतुर्जयशीलस्य मङ्गलपालिका मालरूपा पालिका या कुशकाशादिनिर्मिता उभयपाश्वस्तम्भवृक्षादिषु बद्धा मार्गपालीति प्रसिद्धा तद्वदभूदित्यर्थः । अत्र प्रेमपदोक्काया रतेरपरिपुष्टखाद्भावरूपत्वं बोध्यम् ॥ क्काकार्यमिति। शुक्रकन्यां देवयानी दृष्टवतो राज्ञो ययातेरियमुक्तिः । अकार्य । बादामकन्यासक्तिः । शशलाञ्छनस्य चन्द्रस्य कुलं सोमवंशः। अयं वितर्कः। तदुपयर्देन भूयोऽपीयौत्युक्यम् । एवमग्रेऽपि । श्रुतं शास्त्रश्रवणमिति मति: अहो कमीति स्मरणम् । अपगतकल्मषाः कृते सुकृते धीर्येषां ते किं वदिष्यम्तीति शाङ्का क स्वप्नेऽपीति दैन्यम् । हे चेतः, स्वास्थ्यमुपैहीति, घ्रैर्यम् । कः स्वल्ल घून्यो धुवा वरूणोऽधरं धास्यति पास्यतीति चिन्ता । विप्रलम्भो वियोग इति पर्यायौ ॥
कान्तेति । इन्द्रियाणां वर्मः समूहः । मधुनि मझे निर्ववार निवृत्ति प्राप।