सामग्री पर जाएँ

पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७१
भावोदयालंकारः१०५] अलंकारचन्द्रिकासहितः।

तिष्ठन्ति स्तिमिताः प्ररूढपुलकास्ते विस्मृतोपक्रमा-
 स्तासामुत्तरलैः स्तनैरतितरां लोलैरपाङ्गैरपि ॥

अत्र प्रभुविषयरतिभावस्य शृङ्गाररसाभासोऽङ्गम । यथावा----

त्वयि लोचनगोचरं गते सफलं जन्म मृसिंह भूपते ।
अंजनिष्ट ममेति सादरं युधि विज्ञापयति द्विषां गणः॥

अत्र कवेः प्रभुविषयस्य रतिभावस्य तद्विषयद्विषद्गणरतिरूपो भावाभासोऽङ्गम् ।


समाहितालंकारः १०४

समाहितं यथा---

पश्यामः किमियं प्रपद्यत इति स्थैर्य मयालम्बितं
 किं मां नालपतीत्ययं खलु शठः कोपस्तयाप्याश्रितः ।
इत्यन्योन्यविलक्ष्यदृष्टिचतुरे तस्मिन्नवस्थान्तरे ।
 सव्याज हसितं मया घृतिहरो मुक्तस्तु बाष्पस्खया ॥

अत्र शृङ्गारस्य कोपशान्तिरङ्गम् ॥


भावोदयालंकारः १०५

भावोदयो यथा---

तदद्य विश्रम्य दयालुरेधि मे दिनं निनीषामि भवद्विलोकिनी।
अदर्शि पादेन विलिख्य पत्रिणा तवैव रूपेण समः स मत्रियः ॥
अन्न नलं प्रति दमयन्त्या औत्सुक्यरूपभावस्योदयः शृङ्गाररसस्थानम् ।



प्रत्यर्थिनः शत्रवो वसुन्धरेशा भूपास्तेषां तरुणीर्विलुण्ठितुं याताः किराता भिल्लाः तासां तरुणीनामुत्तरलैरतिचपलैः स्तनैरतितरामतिशयेन लोलैश्चञ्चलैरपाङ्गैर्नेत्रप्रान्तैश्च तैः स्तिमिताः स्तब्धाः प्रोदतरोमाञ्च विस्मृत उपक्रमो लुण्ठनरूपो यैस्ता दृशास्तिष्ठन्तीत्यन्वयः। अत्र शृङ्गारस्याननुरक्तराजवनिताविषयत्वादनौचित्येन प्रवृत्तिरित्याभासरूपलम् ॥ त्वयीति ॥ अजनिष्ट अभूत् । युधि संग्रामे ॥ तद्विषयेति ॥ प्रभुविषया द्विषद्गणस्य या रतिवद्रूप इत्यर्थः। अत्र शत्रुविषयकत्वरूपानौचित्येन प्रवर्तितत्वाद्भावस्याभासत्वम् ॥ पश्याम इति ॥ नायकस्य खमित्रं प्रति नायिकावृत्तान्तोक्तिः। मयि तूष्णीभूते किमियं प्रपद्यते कुरुते तत्पश्याम इत्यभिप्रायेण मया स्थैर्य मौनरूपमालम्बितमजीकृतम् । पश्याम इति बहुवचनं सखीसमानाभिप्रायम् । एवं तयाप्ययं खलु शठो मां किमिति नालपति भाषत इति कोप आश्रितः इत्यन्योन्यं परस्परं विलक्ष्या लक्ष्यरहिता या दृष्टिस्तत्र चतुरे । सव्या निमित्तान्तरव्याजसहितम् ॥

 तदिति ॥ एधि भव । निनीषामि नेतुमिच्छामि । यतस्तवैव रूपेण सम: स