पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वरूपालंकारः ७६ ] अलंकारचन्द्रिकासहितः। १४९ तहुणालंकारः ७५ तद्गुणः स्वगुणत्यागादन्यदीयगुणग्रहः। पद्मरागायते नासामौक्तिकं तेऽधरत्विषा ॥ १४१॥ यथावा- यीर त्वद्रिपुरमणी परिधातुं पल्लवानि संस्पृश्य। न हरति वनभुवि निजकररुहरुचिखनितानि पाण्टुपनधिया ॥ १४ ॥ पूर्वरूपालंकारः७६ पुनः स्वगुणसंप्राप्तिः पूर्वरूपमुदाहृतम् । हरकण्ठांशुलिप्सोऽपि शेषस्त्वद्यशसा सितः ॥१४२ ।। यथावा- विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या । रत्नैः पुनर्यन्न रुचा रुचं स्वामानिन्यिरे वंशकरीरनीलैः ॥ अयमेव तद्गुण इति केचियवजहुः ।। १४२ ॥ . . पूर्वावस्थानुवृत्तिश्च विकृते सति वस्तुनि । दीपे निर्वापितेऽप्यासीत्काञ्चीरत्नैर्महन्महः॥१४३॥ तद्गुण इति ॥ खगुणवागादनन्तरमन्यदीयगुणग्रहणं तद्गुणालंकारः ॥ प- . झोति ॥ तव नासामौक्तिकमधरकान्त्या पद्मरागवदाचरतीलर्थः ॥ वीरेति ॥ है वीर, बदरिकामिनी वनभुवि परिधानं कर्तुं पल्लवानि करेण संस्पृश्य पाण्डपत्र- बुध्या न हरति न गृहाति। कीदृशानि। निजकरराहाणां नखानां रुच्या श्वेत- कान्त्या खचितानि व्याप्तानीलर्धः ॥ १४१ ॥ इति तद्गुणालंकारः ॥ ५५ ॥ पुनरिति ॥ स्वगुणत्यागानन्तरं पुनः स्वगुणप्राप्तिः पूर्वरूपमलंकारः ॥ हरे- ति ॥ नीलोऽपीति युक्तः पाठः ॥ विमिन्नेति ॥ माघे रैवतकगिरिवर्णनम् । गरुडाग्रजेनारुणेन विभिन्नवर्णा मिश्रितवर्णाः सर्यस्य रथ्या अश्वा यत्र गिरौ वंशा- कुरवन्नीलै रत्नैः परितः स्फुरन्या रुचा खां रुचं नीलद्युतिमानिन्यिरे . आनीत- वन्तः। रुचा विभिन्नवर्णा इति वान्वयः । केचिदित्यखरसबीज तु पद्मरागायत इत्युदाहरणे तद्गुणालंकारो न स्यात् । नचेष्टापत्तिः अनुभवसिद्धचमत्कारस्य निरालम्बनलापत्तेरित्यूहनीयम् । अथवायं तद्गुणः एवेत्येवकारक्रमभङ्गेन काव्य- प्रकाशकारादिमतोपन्यासपरत्वेन व्याख्येयम् । तैरन तद्गुणस्योदाहृतवात् । अनाहि पूर्वमश्वानामरुणगुणत्वं अनन्तरं रैवतकरनैरुभयेषां तद्गुणवमिति तद्गुणद्वयमिति तेषामभिमतम् ॥ १४२ ॥ पूर्वेति ॥ वस्तुनि विकृते विगते सत्लपि पूर्वावस्थाया १ 'शेषस्तु शशिना सितः'.