सामग्री पर जाएँ

पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४९
पूर्वरूपालंकारः ७६ ] अलंकारचन्द्रिकासहितः।


तहुणालंकारः ७५

तद्गुणः स्वगुणत्यागादन्यदीयगुणग्रहः।
पद्मरागायते नासामौक्तिकं तेऽधरत्विषा ॥ १४१॥

यथावा-

वीर त्वद्रिपुरमणी परिधातुं पल्लवानि संस्पृश्य।
न हरति वनभुवि निजकररुहरुचिखनितानि पाण्ढुपत्रधिया ॥ १४१ ॥


पूर्वरूपालंकारः७६

पुनः स्वगुणसंप्राप्तिः पूर्वरूपमुदाहृतम् ।
हरकण्ठांशुलिप्सोऽपि शेष[]स्त्वद्यशसा सितः ॥१४२ ॥

यथावा-

विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या ।
रत्नैः पुनर्यन्न रुचा रुचं स्वामानिन्यिरे वंशकरीरनीलैः ॥

अयमेव तद्गुण इति केचिन्घवजहुः ॥ १४२ ॥

पूर्वावस्थानुवृत्तिश्च विकृते सति वस्तुनि ।
दीपे निर्वापितेऽप्यासीत्काञ्चीरत्नैर्महन्महः॥१४३॥


तद्गुण इति ॥ खगुणवागादनन्तरमन्यदीयगुणग्रहणं तद्गुणालंकारः ॥ पझोति ॥ तव नासामौक्तिकमधरकान्त्या पद्मरागवदाचरतीत्वर्थः ॥ वीरेति ॥ है वीर, त्वदरिकामिनी वनभुवि परिधानं कर्तुं पल्लवानि करेण संस्पृश्य पाण्डुपत्रबुध्या न हरति न गृहाति। कीदृशानि। निजकरराहाणां नखानां रुच्या श्वेत- कान्त्या खचितानि व्याप्तानीलर्धः ॥ १४१ ॥ इति तद्गुणालंकारः ॥ ७५ ॥

 पुनरिति ॥ स्वगुणत्यागानन्तरं पुनः स्वगुणप्राप्तिः पूर्वरूपमलंकारः ॥ हरेति ॥ नीलोऽपीति युक्तः पाठः ॥ विमिन्नेति ॥ माघे रैवतकगिरिवर्णनम् । गरुडाग्रजेनारुणेन विभिन्नवर्णा मिश्रितवर्णाः सूर्यस्य रथ्या अश्वा यत्र गिरौ वंशाङ्कुरवन्नीलै रत्नैः परितः स्फुरन्त्या रुचा स्वा रुचं नीलद्युतिमानिन्यिरे आनीतवन्तः। रुचा विभिन्नवर्णा इति वान्वयः । केचिदित्यखरसबीज तु पद्मरागायत इत्युदाहरणे तद्गुणालंकारो न स्यात् । नचेष्टापत्तिः अनुभवसिद्धचमत्कारस्य निरालम्बनलापत्तेरित्यूहनीयम् । अथवायं तद्रुणः एवेत्येवकारक्रमभङ्गेन काव्यप्रकाशकारादिमतोपन्यासपरत्वेन व्याख्येयम् । तैरन तद्गुणस्योदाहृतवात् । अत्रहि पूर्वमश्वानामरुणगुणत्वं अनन्तरं रैचतकरनैरुभयेषां तद्गुणवमिति तद्गुणद्वयमिति तेषामभिमतम् ॥ १४२ ॥ पूर्वेति ॥ वस्तुनि विकृते विगते सत्लपि पूर्वावस्थाया


  1. शेषस्तु शशिना सितः