पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुवलयानन्दः । [अतद्गुणालंकारः ७७ लक्षणे चकारात्पूर्वरूपमिति लक्ष्यवाचक्रपदानुवृत्तिः । यथावा--. द्वार खङ्गिभिरावृतं बहिरपि अस्विन्नगण्डैर्गजै- रन्तः कनुकिभिः स्फुरन्मणिधरैरध्यासिता भूमयः। आक्रान्तं महिषीभिरेव शयनं त्वद्विद्विषां मन्दिरे राजन्सैव चिरंतनप्रणयिनी शून्येऽपि राज्यस्थितिः ॥ १४३ ॥ अतहणालंकारः ७७ संगैतान्यगुणानङ्गीकारमाहुरतद्गुणम् । चिरं रागिणि मच्चित्ते निहितोऽपि न रञ्जसि ॥१४४॥ यथावा- गण्डाभोगे विहरति मदैः पिच्छिले दिग्गजानां वैरिस्त्रीणां नयनकमलेष्वञ्जनानि प्रभाष्टि। यद्यप्येषा हिमकरकराद्वैतसौवस्तिकी ते कीर्तिर्दिक्षु स्फुरति तदपि श्रीनृसिंहक्षितीन्द्र ॥ ननु चान्यगुणेनान्यत्र गुणोदयानुदयरूपाभ्यामुल्लासावज्ञालंकाराभ्यां तद्गु- णातद्गुणयोः को भेदः । उच्यते। उल्लासावज्ञालक्षणयोर्गुणशब्दो दोषप्रतिप- क्षवाची । अन्यगुणेनान्यत्र गुणोदयतदनुदयौ च न तस्यैव गुणस्य संक्रमणा- संक्रमणे किंतु सद्गुरूपदेशेन सदसच्छिष्ययोर्ज्ञानोत्पत्यनुत्पत्तिवत्तद्गुणजन्यत्वेन संभावितयोर्गुणान्तरयोरुत्परयनुत्पत्ती । तहुणातद्गुणयोः पुनर्गुणशब्दो रूपर- सगन्धादिगुणवाची। तन्नान्यदीयमुणग्रहणाग्रहणे च रक्तस्फटिकवस्त्रमालि- न्यादिन्यायेनान्यदीयगुणेनैवानुरञ्जनाननुरञ्जने विवक्षिते । तथैव चोदाहर- माल दर्शितानि । यद्यष्यवज्ञालंकृतिस्तद्गुणश्च विशेषोक्तिविशेषावेव । 'कार्या अनुत्तिरपि पूर्वरूपमलंकारः। महः प्रकाशः ॥ द्वारमिति ॥ हे राजन्, तव खद्विषां मन्दिरे शून्येऽपि चिरंतनः प्रणयो यस्याः सैव राज्यस्य स्थितिमर्यादा । अस्तीत शेषः। यतो द्वारं सद्धिमिर्गण्डकाख्यपशुमिरेव खजधारिंभिरावृतं । बहिरपि भूमयो मदाखिनगण्डैगरध्यासिताः। अन्तःपुरभूमयो विलसन्मणिधारिभिः कचुकिभिः सपैरेव सौविदल्लैरध्यासिताः। शयनं तल्पं महिषीभिर्वनिताभिरेव महिषस्त्रीभिराकान्तमित्यन्वयः ॥ १४३ ॥ इति पूर्वरूपालंकारः ॥ ६ ॥ संयतेति ॥ संगतः स्वसंबद्धो योऽन्यः पदार्थस्तद्गुणानङ्गीकारमतद्गुणालंका- स्माहुः । चिरमिति ॥ रागिण्यनुरागिणि मजिष्ठादिरञ्जनद्रव्ययुक्ते च । निहि- तोऽफि लैज रजसि रक्तोऽनुरागयुकश्च न भवसीति श्लिष्टम् ॥ गण्डेति ॥ हे श्रीमन्नृसिंहात्यभूपते, एषा तव कीर्तिमदैः पिच्छिले पङ्किले दिग्गजानां गण्ड- प्रदेदो यद्यपि विहरति तथा वैरिस्त्रीणां नयनकमलेषु. स्थितान्यञ्जनानि प्रमार्टि १ राश्रित', २ 'तानुगुभा'. ३ 'निहितापि न रज्यसि'. . . Dalitisinesin d i-