पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- - अवज्ञालंकारः ७०] अलंकारचन्द्रिकासहितः । १४३ अन्न वानरस्य चापलदोषेण रतस्य चूर्णनाभावो गुणत्वेन वर्णितः । अन्न प्रथमचतुर्थयोरुलासोऽन्वर्थः । मध्यमयोश्छत्रिन्यायेन लाक्षणिकः५३३-१३५ -- अवज्ञालंकारः ७० ताभ्यां तो यदि न स्यातामवज्ञालंकृतिस्तु सा । खल्पमेवाम्बु लभते प्रस्थं प्राप्यापि सागरम् ।। मीलन्ति यदि पनानि का हानिरमृतयुतेः ॥ १३६ ।। ताभ्यां गुणदोषाभ्यां । तौ गुणदोषौ । अत्र कस्यचिद्गुणेनान्यस्य गुणाला द्वितीयार्धमुदाहरणम् । दोषेण दोषस्याप्राप्तौ तृतीयार्धम् । यथा- मदुक्तिश्चेदन्तर्मदयति सुधीभूय सुधियः किमस्या नाम स्थादलसपुरुषानादरभरः । यथा यूनस्तद्वत्परमरमणीयापि रमणी कुमाराणामन्तःकरणहरणं नैच कुरुते ॥ त्वं चेल्संचरसे वृषेण लघुता का नाम दिग्दन्तिनां व्यालैः कङ्कणभूषणानि कुरुषे हानिन हेनामपि । मूर्धन्यं कुरुषे जलांशुमयशः किंनाम लोकत्रयी- दीपस्याम्बुजबान्धवस्य जगतामीशोऽसि किं ब्रूमहे ॥ अत्राचे कवितारमणीगुणाभ्यामरसबालकयो«दयोल्लासरूपगुणाभावो ब. र्णितः । द्वितीये परमेश्वरानङ्गीकरणदोषेण दिग्गजादीनां लघुतादिदोषाभावो वर्णितः ॥ ३६॥ -HIARIES WWWBIPIN M" - Hamromimarwaresm का । तत्र तस्मिन्सति । विचारणव्यसनिना विचारणतत्परेण । अश्मना पाषा- णेन । प्रथमचतुर्थयोर्गुणेन गुणदोषेण वा गुण इति मेदयोः। उल्लासः उल्लासश- ब्दः ॥ अन्वर्थ इति ॥ उत्कृष्टोल्लासः सुखं यत्रेत्यर्थानुगत इत्यर्थः । छत्रि- न्यायेनेति ॥ केषुचिच्छत्रसंबन्धाच्छयच्छत्रिसमुदाये छत्रिणो यान्तीतिवदि- त्यर्थः ॥ १३३ ॥ १३४ ॥१३५॥ इत्युल्लासालंकारः।।६९॥ प्रस्थं प्रस्थपरिमाणपानम् ॥ मदुक्तिरिति ॥ ममोक्तिः कविता। सुधियो: ऽन्तःकरणं सुधीभूयामृतीभूय चेन्मदयति तोषयति तदास्या मदुक्तेः अरसाना नीरसानां पुरुषाणामनादरसमूहैः किं नाम स्यात् । न किंचिदित्यर्थः । क्वचिदल- सेति पाठः । परमरमणीयापि । केव । रमणी स्त्री यूनस्तरुणस्य यथान्तःकरणहरणं कुरते तद्वत्कुमाराणां वालानामित्यन्वयः ॥ त्वं चेदिति ॥ शिवं प्रति कस्यापि कवेरुक्तिः । जलांशु चन्द्रं पक्षे जडांशुम् । अम्बुजबान्धवः सूर्यः । उल्लासरूप- गुणाभाव उल्लासरूपस्य गुणस्याभावः ॥ १३६ ॥ इत्यवज्ञाप्रकरणम् ॥ ७० ॥ १ पान्धं प्राप्यापि'. a n a neta