पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रहर्षणालंकारः ६७] अलंकारचन्द्रिकासहितः । त्विहापि तुल्यम् । तस्मात्सर्वालंकारविलक्षणमिदं ललितम् । यथावा- व सूर्यप्रभवो वंशः क चाल्पविषया मतिः। . तितीर्घईस्तरं मोहादुडुपेनामि सागरम् ॥. . अनापि निदर्शनाभ्रान्तिन कार्या । अल्पविषयया मत्या सूर्यवंशं वर्णयि- तुमिच्छुरहमिति प्रस्तुतवृत्तान्तानुपन्यासात्तत्प्रतिबिम्बभूतस्य उडुपेन सागर तितीर्घरस्मीत्यप्रस्तुतवृत्तान्तस्य वर्णनेनादौ विषमालंकारविन्यसनेन च केवलं तत्र तात्पर्यस्य गम्यमानत्वात् । यथावा-- अनायि देशः कतमस्त्वयाद्य वसन्तमुक्तस्य दशा वनस्य । त्वदाप्तसंकेततया कृतार्था श्राव्यापि नानेन जनेन संज्ञा ॥ अन्न कतमो देशस्त्वया परित्यक्तः इति प्रस्तुतार्थमनुपन्यस्य वसन्तमुक्तस्य वनस्य दशामनायीति तत्प्रतिबिम्बभूतार्थमात्रोपन्यासाललितालंकारः॥१२८॥ प्रहर्षणालंकारः ६७ उत्कण्ठितार्थसंसिद्धिविना यत्नं प्रहर्षणम् । . तामेव ध्यायते तस्मै निसृष्टा सैव दृतिका ॥ १२९॥ उत्कण्ठा इच्छाविशेषः। 'सर्वेन्द्रियसुखास्वादो यत्रास्तीत्यभिमन्यते। . . तत्प्राप्तीच्छां ससंकल्पामुत्कण्ठां कवयो विदुः॥ . इत्युक्तलक्षणात्तद्विषयस्यार्थस्य तदुपायसंपादनयत्रं विना सिद्धिः प्रहर्षणम् । उदाहरणं स्पष्टम् । यथावा- . . दावप्रस्तुतप्रशंसा प्रकृते तु ललितमिति ॥ तत्प्रतिबिम्बेतिः ॥ प्रस्तुतार्थप्रति- बिम्वरूपस्याप्रस्तुतार्थस्येत्यर्थः । आदौ पूर्वार्धे ॥ विषमेति ॥ खमतिसूर्यवंशयो- रत्यन्ताननुरूपखरूपेत्यर्थः। तात्पर्यस्य तादृशमतिकरणकसूर्यवंशवर्णनेच्छाभि- आयस्य ॥ अनायीति॥ नलं प्रति दमयन्त्या उक्तिः । हे नल, अद्य खया कतमो देशो बसन्तमुक्तस्य बनस्य दशामनायि प्रापितः । खयि प्राप्तसंकेततया कृतार्था संज्ञा नामाप्यनेन मल्लक्षणेन जनेन न श्राच्या न श्रवणाहीं अपितु श्राव्यैवेति । अत्रच तादृशवनदशारूपस्याप्रस्तुतार्थस्य प्रस्तुते देशे कथनात्प्र- स्तुतवृत्तान्तस्योक्तरूपस्य प्रतीतिः । नचात्र वारणेन्द्रलीलामितिवत्पदार्थनिदर्शना युक्तेति वाच्यम् । तत्र पूर्वार्धन प्रकृतवृत्तान्तोपादानेन सादृश्यपर्यवसानरूपनि- दर्शनासत्त्वेऽप्यन तदनुपादानेन तब्यङ्ग्यताप्रयुक्तविच्छित्तिविशेषवत्त्वेन ललि- तालंकारस्यैवोचितवात् । एतेन दशापदलक्षितनिःश्रीकवरूपकार्यद्वारेण कार- णस्य राजकर्तृकत्यागकर्मवस्याभिधानात्पर्यायोक्तमित्यपि निरस्तम् । उपधेयसं- करेऽप्युपाधेरसंकराचेति संक्षेपः॥१२८ ॥ इति ललितालंकारप्रकरणम् ॥६६॥ तामेवेति ॥ दूतिकामेवेत्यर्थः । निसृष्टा प्रेषिता। ससंकल्पां मनोरथसहिताम् । १. विसष्टा'.... . .