पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

....... .... .. ........ । nianAmarendr-in-...atma...] कुवलयानन्दः। [प्रहर्षणालंकारः ६७ मेधैर्मेदुरमम्बरं वनभुवः श्यामास्तमालद्रुमै- नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय।।। इत्थं नन्दनिदेशतश्चलितयोः प्रत्यध्वकुञ्जदुमं राधामाधवयोजयन्ति यमुनाकूले रहाकेलयः॥ अब राधामाधवयोः परस्परसुत्कण्ठितत्वं प्रसिद्धतरमने च ग्रन्थकारेण निबद्धमित्यत्रोदाहरणे लक्षणानुगतिः ॥ १२९॥ वाञ्छितादधिकार्थस्य संसिद्धिश्च प्रहर्षणम् । दीपमुद्दयोजयेद्यावत्तावदभ्युदितो रविः॥१३०॥ स्पष्टम् । यथावा.- चातकनिचतुरान्पयःकणान्याचते जलधर पिपासया। सोऽपि पूरयति विश्वमम्भसा हन्त हन्त महतामुदारता ॥ १३०॥ यत्नादुपायसिऽर्थात्साक्षाल्लाभः फलस्य च । निध्यञ्जनौषधीमूलं खनता साधितो निधिः॥१३१॥ फलोपायसिध्यायनान्मध्ये उपायसिद्धिमनपेक्ष्य साक्षात्कलस्यैव लाभो- ऽपि प्रहर्षणम् । यथा निध्यञ्जनसियर्थ मूलिका खनतस्तत्रैव निघेलाभः । यथावा- . ___ उञ्चित्य प्रथममधःस्थित मृगाक्षी पुष्पौधं श्रितविटपं ग्रहीतुकामा। आरोढुं पदमदधादशोकयष्टावामूलं पुनरपि तेन पुष्पिताभूत् ॥ मेधैरिति ॥ मेदुरं तुन्दिलम् । नक्तं रात्रिरस्तीति शेषः । नन्दनिदेशतो नन्द- स्वाझावशात् । प्रत्यध्वकुलद्रुममध्वसंवन्धिकुलद्रुमं दुमं प्रति । प्रन्थकारेण । गीतगोविन्दकृता ॥ १२९ ॥ चातक इति ॥ यत्तु चातकस्य त्रिचतुरकणमात्रा- र्थितया जलदकर्तृकेणाम्भसा विश्वपूरणेन हर्षाधिक्याभावादंयुक्तमुदाहरणमिति तत्तुच्छम् । हेखसिद्धेः। नहि क्षुदुपशमाय तत्पर्याप्तानमात्रार्थिनस्तदधिकामलामे हर्षाधिक्यं नास्तीति वक्तुं शक्यते । तदानीमुपयोगाभावेऽपि खस्यैव कालान्तरे तदुपयोगसत्त्वात् । नच चातकस्य जलसंग्रहानुपयोगाद्वैषम्यं शङ्कनीयम् । चातकवृत्तान्तस्याप्रस्तुततया तथगये प्रस्तुतदातृयाचकवृत्तान्ते काव्यस्य पर्यव- सानादिति ॥ १३०॥ तृतीयं प्रभेदमाह-यत्नादिति ॥ प्रहर्षणमित्यनुवर्तते ॥ निध्यञ्जनेति॥ निधिदर्शनसाधनं यदजनं तत्साधनौषधिमूलमित्यर्थः । साधितो लब्धः । उश्चित्येति ॥ अधःस्थितं वृक्षस्याधोदेशे स्थितम् । अवस्थितमिति पाठे समीपाशोकयष्टाववस्थितमित्यर्थः । भिता आश्रिता विदपाः शाखा येनेति पुष्पौधविशेषणम् । अदधादाहितवती । यष्टिः स्कन्धः । तेन पादाघातेन । । । पुनरम्यामूल पुश्यिनाभूत् । अर्थादशोकयष्टिः । अत्रच तदसाध्यकयत्नात्तलाम १'दीपमुद्दीपयेयावत्.१ सिद्धार्थात. ३'च'.४ खलता'. ५ आसाहितो'. i nandhyavantaHURNAMAARNE SAURURALASAHARMATLAnimat GERAGE ME. SHMA जम्मान