|
मेधैर्मेदुरमम्बरं वनभुवः श्यामास्तमालद्रुमै- |
अत्र राधामाधवयोः परस्परसुत्कण्ठितत्वं प्रसिद्धतरमग्रे च ग्रन्थकारेण निबद्धमित्यत्रोदाहरणे लक्षणानुगतिः ॥ १२९॥
|
वाञ्छितादधिकार्थस्य संसिद्धिश्च प्रहर्षणम् । |
स्पष्टम् । यथावा -----
|
चातकरित्रचतुरान्पयःकणान्याचते जलधरं पिपासया। |
फलोपायसिध्यायनान्मध्ये उपायसिद्धिमनपेक्ष्य साक्षात्कलस्यैव लाभोऽपि प्रहर्षणम् । यथा निध्यञ्जनसिध्धर्थ मूलिकां खनतस्तत्रैव निघेर्लाभः ।
यथावा-
|
उञ्चित्य प्रथममधःस्थिर्त मृगाक्षी पुष्पौधं श्रितविटपं ग्रहीतुकामा। |
मेधैरिति ॥ मेदुरं तुन्दिलम् । नक्तं रात्रिरस्तीति शेषः । नन्दनिदेशतो नन्दस्वाझावशात् । प्रत्यध्वकुञ्जद्रुममध्वसंवन्धिकुञ्जद्रुमं दुमं प्रति । प्रन्थकारेण । गीतगोविन्दकृता ॥ १२९ ॥ चातक इति ॥ यत्तु चातकस्य त्रिचतुरकणमात्रार्थितया जलदकर्तृकेणाम्भसा विश्वपूरणेन हर्षाधिक्याभावादंयुक्तमुदाहरणमिति तत्तुच्छम् । हेखसिद्धेः। नहि क्षुदुपशमाय तत्पर्याप्तानमात्रार्थिनस्तदधिकामलामे हर्षाधिक्यं नास्तीति वक्तुं शक्यते । तदानीमुपयोगाभावेऽपि खस्यैव कालान्तरे तदुपयोगसत्त्वात् । नच चातकस्य जलसंग्रहानुपयोगाद्वैषम्यं शङ्कनीयम् । चातकवृत्तान्तस्याप्रस्तुततया तव्घङ्गये प्रस्तुतदातृयाचकवृत्तान्ते काव्यस्य पर्यवसानादिति ॥ १३०॥ तृतीयं प्रभेदमाह-यत्नादिति ॥ प्रहर्षणमित्यनुवर्तते ॥ निध्यञ्जनेति॥ निधिदर्शनसाधनं यदञ्जनं तत्साधनौषधिमूलमित्यर्थः । साधितो लब्धः ॥ उच्चित्येति ॥ अधःस्थितं वृक्षस्याधोदेशे स्थितम् । अवस्थितमिति पाठे समीपाशोकयष्टाववस्थितमित्यर्थः । भिता आश्रिता विदपाः शाखा येनेति पुष्पौधविशेषणम् । अदधादाहितवती । यष्टिः स्कन्धः । तेन पादाघातेन । पुनरम्यामूलं पुश्यिनाभूत् । अर्थादशोकयष्टिः । अत्रच तदसाध्यकयत्नात्तल्लम