पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ कुवलयानन्द्रः । [ काव्यलिङ्गालंकारः ६० अद्याराधनतोषितेन विभुना युष्मत्सपर्यासुखा- लोकोच्छेदिनि मोक्षनामनि महामोहे निलीयामहे ॥ अत्र मोक्षस्य महामोहत्वमप्रसिद्धमिति तत्समर्थने सुखालोकोच्छेदिनीति पदार्थों हेतुः । कचित्पदार्थवाक्याथों परस्परसापेक्षौ हेतुभावं भजतः । यथावा- चिकुरप्रकरा जयन्ति ते विदुषी मूर्धनि यान्विति सा। . पशुनाप्यपुरस्कृतेन तत्तुलनामिच्छतु चामरेण कः ॥ अत्र चामरस्य दमयन्तीकुन्तलभारसाम्याभावे विदुषी मूर्धनि यान्विभ- ति सेति वाक्यार्थः, पशुनाप्यपुरस्कृतेनेति पदार्थश्चेत्युभयं मिलितं हेतुः । वचित्समर्थनीयार्थसमर्थनार्थे वाक्याथै पदार्थों हेतुः॥ .. वादनुमितमिदं जन्मनि पुरा.. . पुरारे न कापि क्वचिदपि भवन्तं प्रणतवान् । नमन्मुक्तः संप्रेत्यहमतनुरग्रेऽप्यनतिमा- . ....... नितीश क्षन्तव्यं तदिदमपराधद्वयमपि ॥ . अत्र तावदपराधद्वयं समर्थनीयम् । अस्पष्टार्थत्वात् । तस्समर्थनं च पूर्वा- परजन्मनोरनमनाम्यां वाक्यार्थभूताभ्यां क्रियते । अत्र द्वितीयवास्थार्थेऽत- जुत्वमेकपदार्थों हेतुः । अत्रापि संप्रति नमन्मुक्त इति वाक्यार्थोऽनेकपदार्थों वा हेतुः । कचित्परस्परविरुद्धयोः समर्थनीययोरुभयोः क्रमादुभौ हेतुभावं भजतः।। असोढा तत्कालोल्लसदसहभावस्य तपसः कथानां विस्तम्भेष्वय च रसिकः शैलदुहितुः । प्रमोदं वो दिश्यात्कपटबटुवेषापनयने . त्वराशैथिल्याभ्यां युगपदभियुक्तः स्मरहरः ॥ निलीयामहे । वयमित्यर्थात् ॥ चिकुरेति ॥ चिकुरप्रकाराः केशपाशाः । विदुषी पण्डिता सा दमयन्ती । अपुरस्कृतेनानाहन पुरोभागेऽनिहितेन च । पदा- र्थश्चानेकपदार्थश्व ॥ वपुरिति । पुरा पूर्वस्मिन्कापि जन्मनि क्वचिदपि क्षणे भवन्तं न प्रणतवानितीदं वपुषः शरीरस्य प्रादुर्भावादनुमितम् । संप्रति नमन्नतिं कुर्वन्मुक्तः अतनुरशरीरः । अतोऽहमनेऽप्यनविमानतिरहितः ॥ अत्रेति ॥ समर्थनीयं हेतुकथनेनोपपादनीयम् । अस्पष्टार्थवादस्पष्टहेतुकलात् । अत्रानयोर्वाक्यार्थयोर्मध्ये । द्वितीयवाक्याथै अग्रेऽप्यनतिमानिति वाक्यार्थे । अ. त्राप्यतत्वेऽपि नमन्मुक्त इत्यस्यावाक्यखादाह–अनेकपदार्थों वेति ॥ असोढेति ॥ तपस्यन्तीमुमा प्रति बटुवेषेणागतस्य हरस्य वर्णनम् । कपटेन यो बटोब्रह्मचारिणो वेषस्तस्थापनयने त्यागे लराशैथिल्याभ्यां युगपदमियुक्त आक्रान्तः । खराशैथिल्यहेतुगर्भ क्रमेण विशेषणद्वयमाह । तत्काले उल्लसन्प्रादु-

१. क्षणमपि संप्रत्यतनुरहमने. ..

---