सामग्री पर जाएँ

पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२८
कुवलयानन्द्रः । [ काव्यलिङ्गालंकारः ६०


अधाराधनतोषितेन विभुना युष्मत्सपर्यासुखा-
 लोकोच्छेदिनि मोक्षनामनि महामोहे निलीयामहे ॥

 अत्र मोक्षस्य महामोहत्वमप्रसिद्धमिति तत्समर्थने सुखालोकोच्छेदिनीति पदार्थों हेतुः । क्वचित्पदार्थवाक्याथों परस्परसापेक्षौ हेतुभावं भजतः ।

यथावा-

चिकुरप्रकरा जयन्ति ते विदुषी मूर्ध[]नि यान्बिभर्ति सा।
पशुनाप्यपुरस्कृतेन तत्तुलनामिच्छतु चामरेण कः ॥

 अत्र चामरस्य दमयन्तीकुन्तलभारसाम्याभावे विदुषी मूर्धनि यान्बिभर्ति सेति वाक्यार्थः, पशुनाप्यपुरस्कृतेनेति पदार्थश्चेत्युभयं मिलितं हेतुः। क्कचित्समर्थनीयार्थसमर्थनार्थे वाक्याथै पदार्थों हेतुः ॥

वपुः प्रादुर्भावादनुमितमिदं जन्मनि पुरा
 पुरारे न क्कपि क्कचिदपि भवन्तं प्रणतवान् ।
नमन्मुक्तः संप्र []त्यहमतनुरनेऽप्यनतिमा-
 नितीश क्षन्तव्यं तदिदमपराधद्वयमपि ॥

 अत्र तावदपराधद्वयं समर्थनीयम् । अस्पष्टार्थस्वात् । तत्समर्थनं च पूर्वापरजन्मनोरनमनाभ्यां वाक्यार्थभूताभ्यां क्रियते । अत्र द्वितीयवाक्यार्थेऽतनुत्वमेकपदार्थो हेतुः । अत्रापि संप्रति नमन्मुक्त इति वाक्यार्थोऽनेकपदार्थों वा हेतुः । क्कचित्परस्परविरुद्धयोः समर्थनीययोरुभयोः क्रमादुभौ हेतुभावं भजतः ॥

असोढा तत्कालोल्लसदसहभावस्य तपसः
 कथानां विखम्भेष्वय च रसिकः शैलदुहितुः ।
प्रमोदं वो दिश्याकपटबटुवेषापनयने
 त्वराशैथिल्याभ्यां युगपदभियुक्तः स्मरहरः ॥


निलीयामहे । वयमित्यर्थात् ॥ चिकुरेति ॥ चिकुरप्रकाराः केशपाशाः । विदुषी पण्डिता सा दमयन्ती । अपुरस्कृतेनानाहतेन पुरोभागेऽनिहितेन च । पदाथेचानेकपदार्थश्च ॥ वपुरिति ॥ पुरा पूर्वस्मिन्कापि जन्मनि क्वचिदपि क्षणे भवन्तं न प्रणतवानितीदं वपुषः शरीरस्य प्रादुर्भावादनुमितम् । संप्रति नमन्नतिं कुर्वन्मुकः अतनुरशरीरः । अतोऽहमनेऽप्यनतिमान्नतिरहितः ॥ अत्रेति ॥ समर्थनीयं हेतुकथनेनोपपादनीयम् । अस्पष्टार्थवादस्पष्टहेतुकखात्। अत्रानयोक्यिार्थयोर्मध्ये। द्वितीयवाक्यार्थे अग्रेऽप्यनतिमानिवि वाक्यार्थे । अत्राप्यतत्त्वेऽपि नमन्मुक्त इत्यस्यावाक्यखादाह-अनेकपदार्थों वेतिअसोदेति ॥ तपस्यन्तीमुमा प्रति बटुवेषेणागतस्य हरस्य वर्णनम् । कपटेन यो बटोब्रह्मचारिणो वेषस्तस्यापनयने त्यागे खराशैथिल्याभ्यां युगपदभियुक्त आक्रान्तः । त्वराशैथिल्यहेतुगर्भ क्रमेण विशेषणद्वयमाह । तत्काले उल्लसन्प्रादु-


  1. क्षणामपि
  2. संप्रत्यतनुरहमप्रे