पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

S ale ASADAstories R काव्यलिङ्गालंकारः ६० ] अलंकारचन्द्रिकासहितः । १२९ अत्र शिवस्य युगपत्कृत्रिमब्रह्मचर्यापनयनत्वरातदनुवर्तनेच्छयोविरुद्धयोः क्रमादिरिजातीव्रतपसोऽसहिष्णुत्वं तसंलापकौतुकं चेत्युभावौँ हेतु- त्वेन निबद्धौ । कचित्परस्परविरुद्धयोरुभयोः समर्थनीययोरेक एव हेतुः । यधा- जीयादम्बुधितनयाधररसमास्वादयन्मुरारिरयम् । ... - अम्बुधिमथनकेशं कलयन्विफलं च सफलं च ॥ अन्न विफलत्वसफलत्वकलनयोरुभयोर्विरुद्धयोरेक एवाम्बुधितनयाधरर- सास्वादो हेतुः । इदं काव्यलिङ्गं हेत्वलंकार इति केचिब्याजहुः ॥ हे गोदावरि देवि तावकतटोद्देशे कलिङ्गः कवि- .. 'ग्देिवीं बहुदेशदर्शनसखीं त्यक्त्वा विरक्तिं गतः। ... एनामर्णवमध्यसुप्तमुरभिन्नाभीसरोजासनं ब्रह्माणं गमय क्षितौ कथमसावेकाकिनी स्थास्यति ॥ इत्यत्र ब्रह्मणः प्रापण कथं गोदावर्या कर्तव्यमित्यसंभावनीथार्थोपपादक- स्यार्णवमध्येत्यादितद्विशेषणस्य न्यसनं श्लेषाख्यो गुण इति श्लेषोऽविघटमा- नार्थघटकार्थस्य वर्णनम्' इति श्लेषलक्षणमिति च जयदेवेनोक्तम् । वस्तुतस्त्व- त्रापि पदार्थहेतुकं काव्यलिङ्गमेव तद्भेदकाभावात् । ननु साभिप्रायपदार्थवा. क्यार्थविन्यसनरूपात्परिकरात्काव्यलिङ्गस्य किं भेदकम् । उच्यते । परिकरे पदार्थवाक्यार्थबलाप्रतीयमानार्थों वाच्योपस्कारकतां भजतः। काव्यलिने त पदार्थवाक्यार्थाचेव हेतुभावं भजतः। ननु यद्यपि सुखावलोकोच्छेदिनीया- दिपदार्थहेतुककाच्यलिङ्गोदाहरणे 'अग्रेऽप्यनतिमान्' इत्यादिवाक्यार्थहेतुक कायलिङ्गोदाहरणे च पदार्थवाक्यार्थावेव हेतुभावं भजतस्तथापि पशुनाप्य- पुरस्कृतेनेति पदार्थहेतुकोदाहरणे मचित्तेऽस्ति त्रिलोचन इति वाक्यार्थहेतु- कोदाहरणे च प्रतीयमानार्थस्यापि हेतुकोट्यनुप्रवेशो दृश्यते पशुनेति ह्यवि- भवन्नसहभावो दुःसहलमर्याद्रौर्या यस्य तादृशस्य तपसः असोढा सहनासमर्थः शैलकन्यायाः कथानां विसम्मेषु विश्वासेषु रसिकश्चेति । ब्रह्मचर्य ब्रह्मचारिवेषः॥ जीयादिति ॥ अम्बुधेतनयाया लक्ष्म्या अघररसमाखादयन्नयं मुरारिर्जीया- सर्वोत्कर्षेण वर्तताम् । कीदृशः । समुद्रमथनक्लेशमेवंविधानमालाभात्सफलं कलयन् जानन् एतद्धरमाधुर्य सत्यमृतस्य वैयाद्रिफलं च कलयमित्यर्थः ॥ हे गोदावरीति ॥ अनार्णवमध्येत्यादिनाविशेषणस्य न्यसनं श्लेषाख्यो गुण इति जयदेवेनोक्तमित्यन्वयः । तावकतटोद्देशे खदीयतीरभूमौ कलिङ्गाख्यः कविर्बहूनां देशानां दर्शने सहचारिणीम् । विरफि मुकिम् । एनां सरखती ब्रह्माणं प्रति गमय नयेति संबन्धः । कीदृशम् । अर्णवमध्ये सुप्तो यो मुरभि- न्मुरारिस्तन्नाभिकमलस्थम् ॥ श्लेषोऽविघटमानेत्यत्राकारप्रश्लेषः । अविघटमान- स्यानुपपद्यमानस्यार्थस्य घटक उपपादको योऽर्थस्तस्य वर्णनं श्लेषाख्यो गुण इत्य- र्थः । पदार्थहेतुकं समस्तपदार्थहेतुकम् । पदार्थवाक्यार्थेति द्वन्दः । प्रतीयमानो- कुव०१३ न