पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८ कुवलयानन्दः। [ मालादीपकालंकारः ४८ एकावल्यलंकारः ४७ गृहीतमुक्तरीत्यार्थश्रेणिरेकावलिमता। नेत्रे कर्णान्तविश्रान्ते कौँ दोस्तम्भदोलितौ ॥१०॥ दोस्तम्भौ जानुपर्यन्तनलम्बनमनोहरौ। जानुनी रत्नमुकुराकारे तस्य हि भूभुजः ॥१०६ ॥ उत्तरोत्तरस्य पूर्वपूर्वविशेषणभावः पूर्वपूर्वस्योत्तरोत्तरविशेषणभावो वा गृहीतमुक्तरीतिः । तत्राधः प्रकार उदाहृतः। द्वितीयो यथा--- दिक्कालात्मसमैव यस्य विभुता यस्तत्र विद्योतते ___ यत्रामुष्य सुधीभवन्ति किरणा राशेः स यासामभूत् । यस्तपित्तमुषःसु योऽस्य हविषे यस्तस्य जीवातवे वोढा यद्गुणमेष मन्मथरिपोस्ताः पान्तु वो मूर्तयः ॥१०५॥१०६॥ मालादीपकालंकारः ४८ दीपकैकावलीयोगान्मालादीपकमिष्यते । स्मरेण हृदये तस्यास्तेन त्वयि कृता स्थितिः।।१०७॥ अत्र स्थितिरिति पदमेकं स्मरेण तस्या हृदये स्थितिः कृता हृदयेन त्वयि स्थितिः कृतेत्येवं वाक्यद्वयान्वयि ! अतो दीपकम् । गृहीतमुक्तरीतिसद्भावा- देकावली चेति दीपकैकावलीयोगः। यथावा- गृहीतेति ॥ वक्ष्यमाणया गृहीतनुत्तरीत्या निबद्धार्थपतिरेकावलिरलंकारः। नेत्रे इति ॥ तस्य भूभुज इति सर्वत्र संबध्यते। दोःस्तम्भयो जस्तम्भयोर्दोलि- तमान्दोलनं ययोस्तौ। दोलनाविति पाठे दोला दोलनं ययोरस्तीति विप्रहः । रस्नमुकुरो रत्नदर्पणः ॥ दिक्कालेति ॥ दिकालात्मभिस्तुल्या यस्याकाशस्य वि- भुता । यश्च तत्राकाशे विशेषेण द्योतते सूर्यः। यत्र च चन्द्रे अमुष्य सूर्यस्य किरणा अमृतरूपा भवन्ति । स च चन्द्रो यासामपां राशेः समुद्रादभूत् । यश्चा- मिस्तासामपां पित्तं भवति । 'शुचिरप्पित्तम्' इति कोशात् । यश्च यजमान उषःसु प्रातःकालेऽप्यस्य वहेर्ह विषे हविर्दानाय भवति। यश्च वायुःप्राणरूपस्तस्य यज- मानस्य जीवातवे जीवनौषधाय भवति । यस्याश्च पृथिव्या गुणं गन्धमेष वायु- बाँढाता मन्मथरिपोर्हरस्याष्टौ मूर्तयो वो युष्मापान्खिलन्बयः ॥ १०५ ॥ १०६॥ इत्येकावल्यलंकारः ३. ४७ ॥ मालादीपकमिति ॥ मालादीपकं नामालंकारः । एकमिति वाक्यद्वयान्व.. सोयनेनान्वितम् । अत इति । एतावन्मात्रेण दीपसादृश्याहीपक नतु प्रागुक्त- १ वली'. २ 'दोलनौं'. ३ 'प्रलम्बग'. ४ महीभुजा, ५ 'मुच्यते BER