पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारणमालालंकारः ४६ ] अलंकारचन्द्रिकासहितः । ११७ . कार्यविशेषनिष्पादकतया केनधित्संभाव्यमानादर्थादन्येन कार्यविरोधि- क्रियासोकर्येण समर्थ्यते चेत् सोऽपि व्याघातः। कार्यविरुद्ध क्रियायां सौकर्य कारणस्य सुतरां तदानुगुण्यम् । यथा जैनयात्रोन्मुखेन राज्ञा युवराजस्य राज्य मुच स्थापने यत्कारणत्वेन संभावितं बाल्यं तप्रत्युत तद्विरुद्धस्य सहनयन- स्यैव कारणतया युवराजेन परित्यागस्यायुक्तत्वं दर्शयता समर्थ्यते । यथावा- लुब्धो न विसृजत्यर्थ नरो दारिशङ्कया । दातापि विसृजत्यर्थ तयैव ननु शङ्कया ॥ अन्न पूर्वोत्तरार्धे पक्षप्रतिपक्षरूपे कयोश्चिद्वचने इति लक्षणानुगतिः ॥१०॥ कारणमालालंकारः ४६ . गुम्फः कारणमाला स्याद्यथाप्राक्प्रान्तकारणैः। नयेन श्री श्रित्या त्यागस्त्यागेन विपुलं यशः॥१०४॥ उत्तरोत्तरकारणभूतपूर्वपूर्वैः पूर्वपूर्वकारणभूतोत्तरोत्तरैर्वा वस्तुभिः कृतो गुम्फः कारणमाला । आद्योदाहृता । द्वितीया यथा- भवन्ति नरकाः पापात्पापं दारिद्यसंभवम् । दारिद्यमप्रदानेन तस्माद्दानपरो भवेत् ॥ १०॥ येणेति ॥ कारणस्यानुगुण्याधिक्येनेत्यर्थः । निबद्धा कविवर्णिता। कार्यविरोधिनी पराभिमतकार्यविरुद्धा ॥ दयेति ॥ दिग्विजयाय प्रस्थितं राजानं प्रति युवराज-. स्योक्तिः । बाल इत्यतो मयि दया यौवराज्ये स्थापनरूपा चेत्तदा तस्मादेव हे- तोरहं तवापरित्याज्य एव किंतु स्वेन सह नेतव्य इत्यर्थः । अर्थाविति हेतौ पञ्चमी । अन्वयश्चास्य समय॑ते इत्यनेन । अन्येन वक्रा ॥ जैत्रेति ॥ जयसाध- नेत्यर्थः ॥ लुब्ध इति ॥ तयैव शङ्कया दारिद्यशशङ्कयैव । ननु निश्चितम् अत्र पूर्वाधे लुब्धस्य दानाभावसाधकलाभिमतदारियशक्षारूपपूर्वपक्षनिरूपणम् । दा- तुस्व सैव विरुद्धदानसाधकत्वेन संमतेति पूर्वविरुद्धपक्षनिरूपणमुत्तरार्धे । यद्यपि दारिन्यस्य तात्कालिकत्वेन जन्मान्तरीयत्वेन च शक्षा भिन्ना तथाप्यमेदाध्यवसा- यान लक्षणासमन्वय इति बोध्यम् । सामान्यलक्षणं पूर्ववदन्यतमवघटितमनु- संधेयमिति दिक् ॥ १०३ ॥ इति व्याधातालंकारः ॥४५॥ गुम्फ इति ॥ रचनेसर्थः । कैस्तन्नाह यथेति ॥ प्राक् च प्रान्तं च प्राक्प्रान्ते ते अनतिक्रम्येति यथाप्राकमान्तं यानि कारणानि तैः । पूर्व पूर्व प्रति कारणैरुत्तरोत्तर प्रति कारणैश्चेत्यर्थः। एवं चोत्तरोत्तरेत्यादिव्युत्क्रमेणाभिधानमु- दाहरणक्रमानुरोधेनेति ज्ञेयम् ॥ १०४॥ इति कारणमालालंकारः ॥ ४६॥ १'यदा'. .२ ऽभवत्'. कुच०१२