पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सारालंकारः ४९] अलंकारचन्द्रिकासहितः । संग्रामाङ्गणमागतेन भवता चापे समारोपिते देवाकर्णय येन येन सहसा यद्यत्समासादितम् । कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं • तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम् ॥ अत्र येन येन सहसा यद्यत्समासादितमिति संक्षेपवाक्यस्थितमेकं समा- सादितपदं कोदण्डेन शरा इत्यादिषु षट्स्वपि विवरणवाक्येषु तत्तदुचितलि- ङ्गवचनविपरिणामेनान्वेतीति दीपकम् । शरादीनामुत्तरोत्तरविशेषणावाभदे- कावली चेति दीपकैकावलीयोगः॥ ३०७ ॥ .. सारालंकारः४९ . उत्तरोत्तरमुत्कर्षः सार इत्यभिधीयते । मधुरं मधु तसाच सुधा तस्याः कवेर्वचः॥१०८॥ यथावा- अन्तर्विष्णोस्त्रिलोकी निवसति फणिनामीश्वरे सोऽपि शेते सिन्धोः सोऽप्येकदेशे तमपि चुलकयां कुम्भयोनिश्चकार । धत्ते खद्योतलीलामयमपि नभसि श्रीनृसिंह क्षितीन्द्र स्वकीर्तेः कर्णनीलोत्पलमिदमपि च प्रेक्षणीयं विभाति ॥ - अयं श्लाघ्यगुणोत्कर्षः । अश्लाव्यगुणोत्कर्षों यथा-- तृणालघुतरस्तूलस्तूलादपि च याचकः। बायुना किं न नीतोऽसौ मामयं प्रार्थयेदिति ॥ उभयरूपो यथा- गिरिर्महान्गिरेरब्धिर्महानब्धेनंभो महत् । नभसोऽपि महब्रह्म ततोऽप्याशा गरीयसी ॥ अन्न ब्रह्मपर्यन्तेषु महत्त्वं श्लाघ्यगुणः । प्रकृतार्थाशायामश्लाघ्यगुणः ॥ १०८ ॥ Malam दीपकालंकारः प्रकृताप्रकृतानां सादृश्यस्य गम्यत्वे तंदङ्गीकारादिति भावः ॥ संग्रामेति ॥ कोदण्डेन धनुषा शराः समासादिताः शरैः शत्रुमस्तकं समासा- दितं तेन शत्रुमस्तकेनापि भूमण्डलं तेन भूमण्डलेन त्वं पालकः समासादितः भवता कीर्तिरासादिता कीया. च लोकत्रयं समासादितमित्यनुषशेणान्वयः ॥ १०७ ॥ इति मालादीपकम् ॥ ४८ ।। ... उत्तरेति ॥ सार इति सारो नामालंकारः । तस्याः सुधातः ॥ अन्त- रिति ॥ विष्णोरन्तरदरे त्रयाणां लोकानां समाहारस्त्रिलोकी। सोऽपि विष्णु'- रपि फणिनां नागानामीश्वरे शेषे शेते निद्राति । सोऽपि शेषोऽपि सिन्धोरेकंदेशे तिष्ठतीति शेषः । तमपि सिन्धुमपि कुम्भयोनिरगस्त्यश्चलकयांचकार पीतवान् । अयममस्त्योऽपि नभसि गगने खद्योतशोभा धत्ते । इदं गगनमपि प्रेक्षणीयं