खावलोकनमभिलषतः पथिकस्य धारातनूकरणतश्चिरं पानीयपानानुवृत्तिसं-
पादनेनोपकारः कृतः। अनोभयोापाराभ्यां स्वस्वोपकारसद्भावेऽपि परस्प-
रोपकारोऽपि न निवार्यते ॥९८
विशेषालंकारः ४४
विशेषः ख्यातमाधारं विनाप्याधेयवर्णनम् ।
गतेऽपि सूर्ये दीपस्थास्तमश्छिन्दन्ति तत्कराः॥ ९९ ॥
यथावा-
|
कमलमनम्भसि कमले कुवलयमेतानि कनकलतिकायाम् । |
अन्नाद्ये सूर्यस्य प्रसिद्धाधारस्याभावेऽपि तत्कराणामन्यन्नावस्थितिरुता । द्वितीये त्वम्भसः प्रसिद्धाधारस्य भावेऽपि कमलकुवलययोरन्यन्नावस्थिति- रुक्ता । क्वचिव्यसिद्धाधाररहितानामाधारान्तरनिर्देशं विनवाप्रलयमवस्थिते- वर्णनं दृश्यते । यथावा- .
|
दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम् । |
अन कवीनामभावेऽपि तद्विरामाधारान्तरनिर्देश विनवांप्रलयमवस्थिति- वर्णिता ॥ ९९ ॥
|
विशेषः सोऽपि यद्येकं वस्त्वनेकत्र वयेते। |
अत एवेदृशस्थल एव । 'निजतनुस्वच्छलावण्यवापीसंभूताम्भोजशोभां विदधदभि- नवोद्दण्डपादो भवान्या' इत्यत्राभवन्मतयोगवं दूषणमुदाहृतं मम्मटभट्टैः काव्य- प्रकाशिकायाम् । अन्यत्र तु न खविशेष्यगामिखनियमः । वाश्रितानां विप्राणा- मयं पालकः खाज्ञाकारिणां भृत्यानामयं कल्पवृक्ष इत्यादौ व्यभिचारात् । नचैवं खदाररतीनां विप्राणामहं भक्त इत्यत्र मदीयदाररतानामिति प्रतीतिः स्यादिति वाच्यम् । तात्पर्यस्य नियामकत्वेनापत्त्यभावादिति ॥९८॥ इत्यन्योन्यालंकार:४३
शेषवि इति ॥ ख्यात प्रसिद्धम् । तदुक्तम्-'विना प्रसिद्धमाधारमाधेयस्य व्यवस्थितिः' इति । छिन्दन्ति नाशयन्ति । तत्कराः सूर्यकिरणाः । रानावादित्य- स्वामी प्रवेशश्रवणाद्दीपस्थलम् ॥ कमलमिति ॥ अंत्र कमलखादिना मुखादेर- ध्यवसानं बोध्यम् । कुवलये नेत्रे । एतानि कमलकुवलयानि कनकलतारूपायां कामिन्याम् । सा च कनकलतिका च । निर्देशः कथनम् । आप्रलयं प्रलयपर्य- न्तम् ॥ दिवमिति ॥ दिवमुपयातानामपि येषामनल्पगुणगणयुक्ता गिरः आ- कल्पं कल्पपर्यन्तं जगन्ति भुवनानि रमयन्तीत्वन्वयः॥९९॥ प्रमेदान्तरमाह-