पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ . कुवलयानन्दः। [विषमालंकारः ३८ । इष्टार्थमुद्दिश्य किंचित्कारब्धवतो न केवलमिष्टस्यानवाप्तिः किंतु ततो- . ऽनिष्टस्यापि प्रतिलम्भश्चेत्तदपि विषमम् । यथा भक्ष्यप्रेप्सया सर्पपेटिकां दष्टा प्रविष्टस्य मूषकस्य न केवलं भक्ष्यालाभः किंतु स्वरूपहानिरपीति । यथावा- गोपाल इति कृष्ण त्वं प्रचुरक्षीरवाञ्छया । श्रितो मातृस्तनक्षीरमप्यलभ्यं त्वया कृतम् ॥ इदमर्थावातिरूपेष्टार्थसमुद्यमादिष्टांनवातावनिष्टप्रतिलम्भे चोदाहरणम् । अनर्थपरिहारार्थरूपेष्टार्थसमुद्यमात् । तदुभर्य यथा-- दिवि श्रितवतश्चन्द्रं सैहिकेयभयाद्भुधि।. शशस्य पश्य तन्वनि साश्रयस्य ततो भयम् ॥ अत्र न केवलं शशस्य स्वानर्थपरिहारानवाप्तिः किंतु साश्रयस्थाप्यनर्थी- वातिरिति दर्शितम् । परानिष्टप्रापणरूपेष्टार्थसमुधमात् । तदुभयं यथा- दिधक्षन्मारतेलिं तमादीप्यद्दशाननः । .. ... आत्मीयस्य पुरस्यैव सथो दहनमन्वभूत् ।।... पुरस्यैवेत्येवकारेण परानिष्टप्रापणाभावो दर्शितः । अनिष्टस्याप्यवाप्तिश्चेति श्लोकेऽनिष्टावाप्लेरपिशब्दसंगृहीताया इष्टानवाप्तेश्च प्रत्येकमपि विषमपदेना- न्वयः । ततश्च केवलानिष्टप्रतिलम्भः केवलेष्टानवाप्तिश्चेत्यन्यदपि विषमद्वयं लक्षितं भवति । तत्र केवलानिष्टप्रतिलम्भो यथा- द्विषममित्यर्थः । अपिना इष्टानवाप्तिः संगृह्यते । चकारः पूर्वोक्तविषमसमुच्च- यार्थः ॥ भक्ष्येति ॥ अहिमञ्जूषां सर्पपेटिकां दृष्ट्वा भक्ष्यस्याशया प्रविष्ट आख्खुर्मू- षकस्तेनाहिना भक्षित इत्यन्वयः। यत्तु प्रविष्ट इत्यस्यागम्यमानखान्यूनपदसमिति केनचिदुक्तं तदभिनिवेशदुष्टखहृदयानुभवविकत्थनमित्युपेक्षणीयम् । अनिष्टस्यापि प्रतिलम्भ इत्यत्रापिभिन्नक्रमो बोध्यः ॥ गोपाल इति ॥ हे कृष्ण, त्वं गो- पाल इति हेतोर्बहुदुग्धवाञ्छया श्रित आश्रितः। खया तु मातृस्तनदुग्धमप्यलभ्यं कृतम् । मुक्तिदानेनेति भावः। पूर्वनेष्टानवाप्तिरर्थगम्या इह खपिशब्दगम्यति । "विशेषः । इदमिति उदाहरणमिति च जातावेकवचनम् ॥ दिवीति । भुवि सैं- हिकेयस्य सिंहीपुत्रस्य सिंहस्य भयात् दिवि आकाशे चन्द्रमाश्रितवतः शशस्य साश्रयस्याश्रयसहिंतस्य ततः सैहिकेयाद्राहोर्भयमेतत् हे तन्वनि, पश्येत्यन्वयः ॥ परेति ॥ परस्यानिष्टावाप्तिरूपो य इष्टार्थ इत्यर्थः । तदुभयमिष्टानवाप्स्यनिष्टावा- प्तिद्वयम् ॥ दिधक्षन्निति ॥ दशाननो रावण: मारुतेईनुमतो वालं पुच्छे दग्धु- मेच्छस्त बालमादीप्यद्दीपयति स्मेयर्थः । प्रत्येकमपीति ॥ अपिना इष्टानवा- प्तिसमुचिताया अनिष्टावाप्तेविषमपदेनान्वयः समुञ्चीयते । विषमपदेन विषम- परामर्शकेन तत्पदैन । तथाच तात्पर्यवलाद्वाक्यमावर्तनीयमिति भावः। यत्त्वनिष्ट- स्यैवं तदुत्तरापिशब्दसमुचिताया इष्टानवाप्तेरप्यानोतिनैवान्वयो नतु तत्पदपराम- टेन विषमेणाव्युत्पत्तरिति तत्प्रागेवापिशब्दान्वयव्याख्यानेन निरस्तं वेदितव्यम् ।। maithilancketirekasiwreakinirunayar...