सामग्री पर जाएँ

पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०७
विषमालंकारः३८] अलंकारचन्द्रिकासहितः ।


पग्नातपत्ररसिके सरसीरुहस्य
 किं बीजमर्पयितमिच्छसि वापिकायाभू ।
कालः कलिर्जगदिदं न कृतज्ञमज्ञे
 स्थित्वा हरिष्यत्ति मुखस्य तवैव लक्ष्मीम् ॥

 अत्र पद्मातपत्रलिप्सया पद्मबीजावापं कृतवत्यास्तल्लाभोऽस्त्येव किंतु मुखशोभाहरणरूपोत्कटानिष्टप्रतिलम्भः । केवलेष्टानवाप्तिर्यथा----

खिन्नोऽसि मुञ्च शैलं बिभृमो वयमिति वदत्सु शिथिलभुजः ।
भरभुन्नत्रिततबाहुषु गोपेषु हसन्हरिर्जयति ॥

 अत्र यद्यपि शैलस्योपरिपतनरूपानिष्टावाप्तिः प्रसक्ता तथापि भगवरकराम्बुजसंसर्गमहिम्ना सा न जातेति शैलधारणरूपेष्टानवाप्तिमान्नम् । यथावा--

लोके कलङ्कमपहातुमयं मृगाङ्को
 जातो मुखं तव पुनस्तिलकच्छलेन ।
तत्रापि कल्पयसि तन्वि कलङ्करेस्वां
 नार्यः समाश्रितजनं हि कलङ्कयन्ति ॥

 अत्रानिष्टपरिहाररूपेष्टानवाप्तिः । यथावा---

शापोऽप्यदृष्टतनयाननपझशोभे
 सानुग्रहो भगवता मयि पातितोऽयम् ।


पझेति ॥ दयितां प्रति नायकोक्तिः। पद्मस्यातपत्रं छत्रं तत्र रसिके हे तन्बि, वापिकायां सरसीरुहस्य पद्मस्य कन्दमर्पयितुं किमितीच्छसि । यतः हे अज्ञे, कलियुगरूपः कालः, इदं जगत्कृतज्ञं च न भवति । ततः किं तत्राह । इदं सरसीरुहं स्थित्वा तवैव मुखस्य लक्ष्मी हरिष्यति न त्वन्यस्था इत्यर्थः ॥ खिन्नोऽसीति ॥ बिभृमो धारयामः । वदत्सु गोपेषु शिथिलौ भुजौ यस्य सः । भरेण शैलभारेण भुम्ना वक्राः वितता विस्तीर्णा बाहवो येषां तथाभूतेषु सत्सु हसन् ॥ अत्रेति ॥ नच भरभुग्नेत्यनेन बाहुगतास्थिसन्धिमरूपानिष्टप्राप्तेः साक्षादुपात्तत्वात्सर्वाङ्गचूर्णीभावगर्वापहाररूपायाश्च स्फुटं गम्यमानत्वात्कथमिष्टाप्राप्तिमात्रमित्युच्यत इति वाच्यम् । अस्थिसंधिभङ्गस्याशब्दार्थत्वाद्भगशैथिल्यप्रयुक्त्त शैथिल्यप्रयुक्तभाराधिक्येन वक्रतामात्रस्य शब्दोपात्तस्य च क्लेशविशेषानावायकत्वेनानिष्टव्यपदेशानर्हत्वात् , सुहृद्भूतानां गोपानामनिष्टप्राप्तौ हास्यानुपपत्तेश्च । अतएव न सर्वाङ्गचूर्णीभावोऽपि गम्यः, गर्वप्रसक्त्यभावाच्चं न तदपहारोऽपि । यतश्विरकालशैलधारणजन्यश्रमपरिजिहीर्षया गोपानां प्रवृत्तिरिहावगम्यत इति निरवधम् ॥ लोक इति ॥ हे तन्वि, लोके प्रसिद्ध कलङ्कमपहातुं निवारयितुं मृगास्तव मुखं जातस्तत्रापि पुनस्तिलकव्याजेन कलङ्करेखां त्वं कल्पयसि करोषि । हि यस्मान्नार्यः समाश्रितजनं खाश्रितजनं कलङ्किनं कुर्वन्तीत्यन्वयः ॥ शापोऽपीति ॥ मृगयायां प्रमादतो हतपुत्रेण तापसेन त्वमपि पुत्रशोकान्मरिष्यसीति