पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषमालंकारः३८] अलंकारचन्द्रिकासहितः । १०७. . पन्नातपत्ररसिके सरसीरुहस्य किं बीजमर्पयितमिच्छसि वापिकायासू । कालः कलिर्जगदिदं न कृतज्ञमझे स्थित्वा हरिष्यत्ति मुखस्य तवैव लक्ष्मीम् ।। अत्र पद्मातपत्रलिप्सया पद्मबीजावापं कृतवत्यास्तल्लाभोऽस्त्येव किंतु मुख- शोभाहरणरूपोत्कटानिष्टप्रतिलम्भः । केवलेष्टानवातियथा- खिन्नोऽसि मुञ्च शैलं बिभृमो वयमिति वदत्सु शिथिलभुजः । भरभुन्नत्रिततबाहुषु गोपेषु हसन्हरिर्जयति ॥ अत्र यद्यपि शैलस्योपरिपतनरूपानिष्टावाप्तिः प्रसक्ता तथापि भगवरकरा- म्बुजसंसर्गमहिम्ना सा न जातेति शैलधारणरूपेष्टानवाप्तिमानम् । यथावा-- लोके कलमपहातुमयं मृगाको जातो मुखं तव पुनस्तिलकच्छलेन । तत्रापि कल्पयसि तन्वि कलङ्करेखां नार्यः समाश्रितजनं हि कलङ्कयन्ति ॥ अनानिष्टपरिहाररूपेष्टानवाभिः । यथावा--- शापोऽप्यदृष्टतनयाननपञ्चशोभे सानुग्रहो भगवता मयि पातितोऽयम् ।..., पझेति ॥ दयितां प्रति नायकोक्तिः। पद्मस्यातपत्र छत्रं तत्र रसिके हे तन्बि, वापिकायां सरसीरुहस्य पद्मस्य कन्दमर्पयितु किमितीच्छसि । यतः हे अज्ञे, क- लियुगरूपः कालः, इदं जगत्कृतज्ञं च न भवति । ततः किं तत्राह । इदं सरसी- रहं स्थित्वा तवैव मुखस्य लक्ष्मी हरिष्यति न खन्यस्था इत्यर्थः ॥ खिन्नो- ऽसीति ॥ बिमुमो धारयामः । वदत्सु गोपेषु शिथिलौ भुजौ यस्य सः । भरेण शैलभारेण भुम्ना वकाः वितता विस्तीर्णा बाहवो येषां तथाभूतेषु सत्सु हसन् ॥ अत्रेति ॥ नच भरभुनेत्यनेन बाहुगतास्थिसन्धिमरूपानिष्टप्राप्तेः साक्षादुपात्त- बात्सर्वाङ्गचूर्णीभावगर्वापहाररूपायाश्च स्फुट गम्यमानखात्कथमिष्टाप्राप्तिमात्र- मित्युच्यत इति वाच्यम् । अस्थिसंधिभङ्गस्याशब्दार्थखाद्भगवद्भुज शैथिल्यप्रयुक्त- भाराधिक्येन वक्रतामात्रस्य शब्दोपात्तस्य च क्लेशविशेषानावायकत्वेनानिष्टव्यप- देशानहलात् , सुहृद्भूतानां गोपानामनिष्टप्राप्तौ हास्यानुपपत्तेश्च । अतएव न स- झिचूर्णीभावोऽपि गम्यः, गर्वप्रसक्त्यभावाचं न तदपहारोऽपि । यतश्विरका- लशैलधारणजन्यश्रमपरिजिहीर्षया गोपानां प्रवृत्तिरिहावगम्यत इति निरवधम् ॥ लोक इति ॥ हे तन्वि, लोके प्रसिद्ध कलङ्कमपहातुं निवारयितुं मृगास्तव मुखं जातस्तत्रापि पुनस्तिलकव्याजेन कलङ्करेखां त्वं कल्पयसि करोषि । हि यस्मानार्यः समाश्रितजनं खाश्रितजनं कलङ्किनं कुर्वन्तीत्यन्वयः ॥ शापो- ऽपीति ॥ मृगयायां प्रमादतो हतपुत्रेण तापसेन लमपि पुत्रशोकान्मरिष्यसीति