पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यथावा- विषमालंकारः ३८] अलंकारचन्द्रिकासहितः । १०५ विषमालंकारः ३८ . विषमं वर्ण्यते यत्र घटनाऽननुरूपयोः। केयं शिरीषद्वङ्गी क तावन्मदनज्वरः ॥८८॥ अत्रापि मृदुत्वेनातिदुःसहत्वेन चाननुरूपयोरङ्गनामदनज्वरयोर्घटना । अभिलपसि यदीन्दो वक्रलक्ष्मी मृगाक्ष्याः । पुनरपि सकृदब्धौ मज संक्षालयाङ्कम् । सुविमलमथ बिम्ब पारिजातप्रसूनैः सुरभय वदनो चेत्त्वं क तस्या मुखं च ॥ पूर्वत्र वस्तुसती घटना । अत्रच चन्द्रवदनलक्ष्म्योस्तर्किता घटनेति भेदः ८८ विरूपकार्यस्योत्पत्तिरपरं विषमं मतम् । कीर्तिं प्रसूते धवलां श्यामा तव कृपाणिका ॥ ८९॥ अत्र कारणगुणप्रक्रमेण विरुद्धाच्छयामावलोत्पत्तिः । कार्यकारणयोर्निर्व- स्य निर्वर्तकरवे पञ्चमी विभावना । विलक्षणगुणशालित्वे त्वयं विषम इति सेदः ॥ ८९॥ अनिष्टसाप्यवाप्तिश्च तदिष्टार्थसमुद्यमात् । .. भक्ष्याशयाहिमञ्जूषां दष्ट्वाखुस्तेन भक्षितः ॥ ९० ॥ MARRIA वदप्रतीतेः । अतएव न विरोधाभासोऽपि । विशेषोक्तिकथनं बत्रासंगतमेव । नहि गोत्रोद्धारविषयक प्रवृत्तिरूपकारणसत्त्वेऽपि गोत्रोद्धाररूपस्य कार्यस्यानुत्प- त्तिरिह प्रतिपाद्यते, किंतु विरुद्धकार्योत्पत्तिरेवेति विभावनीयम् ॥ ८६ ॥ ८७ ॥ इत्वसंगतिप्रकरणम् ॥ ३७॥ विषममिति ।। परस्परमानुरूप्यरहितयोः पदार्थयोर्यत्र घटना संबन्धो वर्ण्यते तत्र विषमनामालंकारः । संबन्धश्च संयोगादिः उत्पाद्योत्पादकभावश्चेति सर्वप्र- कारसाधारणमेतलक्षणं बोध्यम् ॥ अमिलषसीति ॥ अङ्क कलङ्कम् । संक्षालय प्रक्षालय । अथ प्रक्षालनानन्तरम् । नो चेत्तस्य मुखं क ख व इति वदेत्य- न्वयः। वस्तुसती वस्तुगत्या विद्यमाना ॥ चन्द्रेति ॥ चन्द्रश्च बदनलक्ष्मीश्च तयोरित्यर्थः ।। ८८ ॥ विरूपकार्यस्येति ॥ कारणविलक्षणस्वरूपस्येत्यर्थः । कृपाणिका खड्गः । प्रक्रमेणेति ॥ प्रक्रमः परिपाटी। खजातीयकार्यगुणोत्पाद- कलरूपा विरुद्धा कार्यसंपत्तिरिति पञ्चमविभावनाप्रकारेणाभेदमाशयाह- कार्यति ॥ अयं विषमः उक्तविषमालंकारप्रभेदः ॥ ८९ ॥ तृतीयप्रकारमाह- अनिष्तस्यापीति ॥ अपिभिन्नक्रमः। इष्टार्थसमुद्यमादनिष्टस्यावाप्तिरपि च त- १ 'अवाप्तिश्चेत्तदिष्टार्थ. कुव०११