पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

असंगत्यलंकारः ३७ ] अलंकारचन्द्रिकासहितः। १०३ विरुद्धमिति विशेषणायन कार्यहेत्वोर्भिनदेशस्वं न विरुद्धं तन नासं- गतिः । यथा- भ्रूचापवल्ली सुमुखी यावन्नयति वक्रताम् । तावत्कटाक्षविशिखैर्भियते हृदयं मम ॥ ४५ ॥ अन्यत्र करणीयस्य ततोऽन्यत्र कृतिश्च सा। अन्यत्कर्तु प्रवृत्तस्य तद्विरुद्धकृतिस्तथा ॥८६॥ . अपारिजातां वसुधां चिकीर्षन्यां तथाकृथाः। गोत्रोद्धारप्रवृत्तोऽपि गोत्रोद्भेदं पुराऽकरोः ॥ ८७ ॥ अत्र कृष्णं प्रति शक्रस्य सोपालम्भवचने भुवि चिकीर्षिततया तत्र कर- गोयमपारिजातत्वं दिवि कृतमित्येकाऽसंगतिः । पुरा गोत्राया उद्धारे प्रवृत्तेन वराहरूपिणा तद्विरुद्धं गोत्राणां दलनं खुरकुट्टनैः कृतमिति द्विविधापि श्लेषोत्थापिता । यथावा- त्वत्खनखण्डितसपतविलासिनीनां भूषा भवन्त्यभिनवा भुवनैकवीर । नेन्नेषु कङ्कणमयोरुषु पत्रवल्ली - चोलेन्द्रसिंह तिलकं करपल्लचेषु ॥ Luan BAR दमयन्ती प्रति हंसोक्तिः । हे दमयन्ति, त्वं तदीयां नलसंबन्धिनी दूरमत्यन्तं दीर्घा संकल्पो मनोरथस्तद्रूपसोपानपरम्परामजनं निरन्तरमारोहसि । स पुनर्न- लोऽधिकं श्वासान्वर्षति मुञ्चतीति यत्तव ध्यानात्वन्मयतां लत्स्वरूपतामवाप्ये- त्यन्वयः। अत्र चतुर्थपादेनासंगतिसमाधानम् ॥ भ्रूचापेति ॥ भ्रूचापवल्ली भ्रूखरूपधनुर्लताम् । यावदिति परिमाणार्थम् । वक्रतां नयति । आकर्षतीति यावत् । तावत्परिमाणं हृदयं भिद्यत इत्यर्थः। अत्र हृदयभेदधनुराकर्षणयोः कार्यकारणयोनिदेशलमेव दृष्टमिति नासंगतिरलंकारः॥८५॥ अन्यत्रेति॥ अन्यत्र कर्तव्यस्य वस्तुनस्ततोऽन्यस्मिन्नधिकरणे या कृतिः करणं तदप्यसंगति- रित्यनुषज्यते । तथा अन्यत्कार्य कर्तुं प्रवृत्तस्य तद्विरुद्ध कार्यकरणं तृतीया । असंगतिः । अपगतमरिजातं यस्यास्तां धां स्वर्गम् । तथा पारिजाततरुरहिताम- कृथाः कृतवान् । एवं गोत्रायाः पृथिव्या उद्धाराय पुरा वराहावतारे प्रवृत्तोऽपि स्वं गोत्राणां पर्वतानामुद्धेदं दलनमकरोः कृतवानित्यर्थः । श्लेषोत्थापिता श्लेषमूलकाभेदाध्यवसायोत्थापिता ॥ यथावा ॥ त्वत्खनेति ॥ हे भुवनैक- वीर चोलदेशाधिप सिंहसदृश, तब खङ्गेन खण्डिता ये सपनाः शन्नवस्त- द्विलासिनीनामभिनवा अदृष्टपूर्वा भूषा भूषणानि भवन्ति । यथा नेत्रेषु कर्ण विलयं भवतीत्यनुषङ्गः । अथेति समुच्चये। ऊरुषु च पत्रयुक्ता वल्ली सैव पत्रि- ... १. कृतिश्च यत् .. २ 'पुराऽकरोत्'. .... ..