पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२ कुवलयानन्दः। [ असंगत्यलंकारः ३७ असंभवालंकारः ३६ असंभवोऽर्थनिष्पत्तेरसंभाव्यत्ववर्णनम् । को वेद गोपशिशुकः शैलमुत्पाटयेदिति ॥ ८४ ॥ यथावा--- अयं वारामेको निलय इति रत्नाकर इति श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः। क एवं जानीते निजकरपुटीकोटरगतं क्षणादेन ताम्यत्तिमिमकरमापास्यति मुनिः ॥ ८४॥ SE. असंगत्यलंकारः ३७ . विरुद्धं भिन्नदेशत्वं कार्यहेत्वोरसंगतिः। विषं जलधरैः पीतं मूच्छिता पथिकाङ्गनाः ॥ ८५ ॥ . ययोः कार्यहेत्वोर्भिनदेशत्वं विरुद्धं तथोस्तन्नियध्यमानमसंगत्यलंकारः । यथात्र विषपानमूर्च्छयोभिन्नत्वम् । यथावा- अहो खलभुजङ्गस्य विचित्रोऽयं वधक्रमः । अन्यस्य दशति श्रोत्रमन्यः प्राणैर्वियुज्यते ॥ क्वचिदसांगत्यसमाधाननिबन्धनेन चारुतातिशयः । यथावा-- अजस्त्रमारोहसि दूरदीर्घा संकल्पसोपानततिं तदीयाम् । श्वासान्स वर्षत्यधिकं पुनर्ययानात्तव त्वन्मयतामवाप्य ॥ रागो रक्तिमा रतिश्च । पुरःसरोऽप्रवर्ती आज्ञाकरश्च । पूर्वोदाहरणेऽनुक्तिनिमि- त्ता इह दैवगतिवैचित्र्यस्य निमित्तस्योपादानादुनिमित्तेति मेदः ॥ ८३॥ इति विशेषोक्तिप्रकरणम् ॥ ३५॥ . असंभव इति ॥ कस्यचित्पदार्थस्य निष्पत्तेरसंभावनीयलवर्णनमसंभवो नामालंकारः। गोपशिशुको गोपबालकः । निन्दायां खार्थे वा कप्रत्ययः। उत्पाटयेदुद्धरेत् ॥ अयमिति ॥ वारां जलानां निलयः स्थानम् । तृष्णा पिपासा अर्थाभिलाषश्च । तरलितं चञ्चलीकृतम्। श्रित आश्रितः मुनिरगस्त्यः एनं समुद्रं क्षणादासमन्तात्पास्यति इदं को जानीत इत्यन्वयः। कीदृशम् । निजकरपुटी करसंपुटमेव कोटरं बिलं तद्गतं तथा ताम्यन्तो ग्लायन्तस्तिमयो मत्स्या मकराश्च यस्यैवंभूतमित्यर्थः ॥ ८४ ॥ इत्यसंभवालंकारप्रकरणम् ॥ ३६॥ विरुद्धमिति ॥ अदृष्टमित्यर्थः । भिन्नदेशत्वं भिन्नाधिकरणलम् । विषं जलं ... हालाहलं च । संगतस्य भावः सांगत्यं तदभावोऽसांगत्यम् ॥ अजस्त्रमिति ॥ १ संभव्यत्व'. २ विरुद्धभिन्नदेशत्वं कार्यहेतो'.