सामग्री पर जाएँ

पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०१
विशेषोक्त्यलंकारः ३५ ] अलंकारचन्द्रिकासहितः।


 मुकुलीभवन्ति चित्रं परराजकुमारपाणिपङ्गानि ॥

यथावा-

अविवेकि कुचद्वन्द्वं हन्तु नाम जगह्त्रयम् ।
श्रुतिप्रणयिनोरक्षणोरयुक्तं जनमारणम् ॥

 पूर्वोदाहरणयोः कारणस्य कार्यविरोधित्वं स्वाभाविकम् । इहतु श्रुतिप्रणयित्वरूपागन्तुकगुणप्रयुक्तमिति भेदः ॥ ८१ ॥

का[]र्यात्कारणजन्मापि दृष्टा काचिद्विभावना।
यशः पयो[]रीशिरभूत्करकल्पतरोस्तव ॥ ८२ ॥

यथावा-

जाता लंता हि शैले जातु लतायां न जायते शैलः।
संप्रति तद्विपरीतं कनकलवायां गिरिद्वयं जातम् ॥ ८२ ॥


विशेषोत्यलंकारः ३५

कार्याजनिर्विशेषोक्तिः सति पुष्कलकारणे ।
हृदि स्नेहक्षयो नाभूत्स्मरदीपे ज्वलत्यपि ॥ ८३ ॥

यथावा--

अनुरागवती संध्या दिवसस्तत्पुरःसरः।
अहो दैवगतिश्चित्रा तथापि न समागमः ॥ ८३ ॥


इति ॥ कस्यचिद्राजकुमारस्य प्रतापवर्णनम् । कुमाररूपे सूर्ये उदित्ते सति कोः पृथिच्या वलयं मण्डलमेव कुवलयं कुमुदमुल्लासं प्राप्नोति । क्षत्रं क्षत्रियकुलं न भाति । अथच नक्षत्रं भातीति चित्रम् । तथा परेषां राजकुमाराणं पाणिकमलानि मुकुलीभवन्ति संकुचन्ति । अञ्जलिबन्धात्तदाकृतीनि भवन्तीत्यर्थः ॥ अविवेकीति ॥ विवेको विशेषदर्शनं विक्ष्लेषश्च तच्छून्यम् । परस्परं संक्ष्लिष्टत्वातः । कुचंयुगं कर्तृ । जगत्रयं हन्तु नाम । श्रुतिर्वेदः कर्णश्च । प्रणयः परिचयः ॥ ८१॥ यश इतिः॥ कर एव: दातृवात्कल्पतरुः । अत्र पयोधिजन्यात्कल्पतरोः कारणस्य पयोधेरुत्पत्तिः षष्ठी विभावना ॥ जातेति ॥ जातु कदाचित् । कनकलतेव कनकलता कामिनी । गिरिद्वयमिव स्तनद्वयम् ॥ ८२॥ इति विभावनाप्रकरणम् ॥ ३४॥

 विशेषोक्ति लक्षयति--कार्याजनिरिति ॥ पुष्कले सहकारिसंपन्ने कारणे सति । प्रसिद्धकारणसमूहे सतीति यावत् । कार्यस्थाजनिरनुत्पत्तिर्विशेषोक्तिः । विशेषस्यानुत्पत्तिनिमित्तस्योक्तिरवगतियंत्रेति व्युत्पत्तेः ॥ अनुरागेति ॥ अनु-


  1. कार्याञ्चत्कारणोत्पत्तिर्दृष्टा'
  2. पयोधिरभवत्करः