सामग्री पर जाएँ

पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०४
कुवलयानन्दः । [असंगत्यलंकारः ३७


मोहं जगन्नग्रभुवामपनेतुमेत-
 दादाय रूपमखिलेश्वर देहभाजाम् ।
निःसीमकान्तिरसनारधिनामुनैव
 मोहं.प्रवर्धयसि मुग्धविलासिनीनाम् ॥

 अत्राधोदाहरणे कङ्कणादीनामन्यत्र कर्तव्यत्वं प्रसिद्धमिति नोपन्यस्तम्। भवतिना भावनारूपा अन्यत्र कृतिराक्षिप्यत इति लक्षणानुगतिः ॥८६॥८७॥



कारचना । करपल्लवेषु तिलयुकं कं जलमेव ललाटभूषणामिति ॥ मोहमिति ॥ हे अखिलेश्वर, जगत्रयवर्तिनां देहधारिणां मोहमपनेतुमेतत् रूपं कृष्णशरीरमादाय मर्यादातिक्रान्तकान्तिरूपरससमुद्रेणामुनैव रूपेण सुन्दरस्त्रीणां मोहं प्रवर्धयसीयन्वयः ॥ अत्रेति ॥ अनयोर्मध्य इत्यर्थः । आघोदाहरणे इत्यस्य लक्षजानुगतिरित्यत्रान्वयः । भवतिना भक्त्यर्थेन । भवनेनेति यावत् । भावनारूपा भवनप्रयोजकव्यापाररूपा । यत्तु अन्यत्र करणीयस्येत्यायसंगतिप्रकारद्वयान्तरकथनमयुतम् । अपारिजातामित्युदाहरणे पारिजातराहित्यचिकीर्षारूपकारणस्य कार्येण पारिजातराहित्येन वैयधिकरण्योपनिबन्धनेन प्राथमिकासंगतितो वैलक्षण्यानुपपत्तेः । आलम्बनाख्यविषयतासंबन्धनचिकीर्षायाः सामानाधिकरण्येन कार्यमानं प्रति हेतुत्वात् । एवं नेत्रेषु कङ्कणमित्यादौ कङ्कणत्वनेत्रालंकारत्वयोविरुद्धयोः सामानाधिकरण्यवर्णनाद्विरोधाभासत्वमुचितम् । एवं गोत्रोद्धारप्रवृत्तोंऽपीत्युदाहरणे विरुद्धात्कार्यसंपत्तिदृष्टा काचिद्विभावने'त्युक्तविभावनाप्रकारेणैव गतार्थवादसंगतिमेदान्तरकल्पनानुचिता। मोहमित्यादावपि मोहनिर्वर्तकत्वमोहजनकलयोर्विरुद्धयोरेकत्र वर्णनाद्विरोधाभास एवेति कैश्चिदुक्तं तदसंगतम् । उक्तसंबन्धेन चिकीर्षाया हेतुत्लासिद्धेः । नहि यदधिकरणे कार्यचिकीर्षा तदधिकरणमन्तर्भाव्योकसंबन्धेन चिकीर्षायाः कार्यहेतुत्वं तात्रिकसंमतं युक्तं वा । अन्यत्र चिकीर्षितस्यापि प्रमादादिनान्यत्र करणेन व्यभिचारात् । अतएवैवंविधवैयधिकरण्यस्य विरुदखादपि न प्राथमिकासंमत्यन्तर्भावसंभवः । वस्तुतस्तु---- ’विषं अलवरैः पीतं मूच्छिताः पथिकाङ्गनाः' इत्यत्रेव नात्र कार्यकारणवैयघिकरण्यप्रयुक्तो विच्छित्तिविशेषोऽपि त्वन्यत्र कर्तव्यस्थान्यत्र करणप्रयुक्त एवेति सहृदयमेव प्रष्टव्यम् । एवं नेत्रेषु कङ्कणमित्वत्र सत्यपि विरोधाभासेऽन्यत्र चमत्कारित्वेन कृप्तालंकारभावादन्यत्र करणरूपासंगतिरपि प्रतीयमाना न शक्या धकर्तुम् । एवं गोत्रोद्धारप्रवृत्तोऽपीत्युदाहरणे गोत्रोद्धारप्रविषयकप्रवृत्तोत्रोभ्दे दरूपाविरुद्धवाविरुद्धा कार्यसंपत्तिर्विभावनेत्यपि न युक्तम् । गोत्रोद्धरप्रवृत्तेपोत्रोभ्देदनिवर्त कत्वाभावेन तद्विरुद्धलामावात् । कथंचित्तदम्बुपनमेऽन्यन्यत्कार्य कर्तु त्रवृतेन तद्विरुद्धकार्यान्तस्करणरूपासंगतिरपि मोहे जगत्रयमुवामित्यादौ चमत्कारित्वेन लब्धात्मिका न निवारयितुं शक्यते । नचात्रापि मोहनिवर्तकान्मोहोत्पतेः सैच विमाक्नेति वाच्यम्। मोहनिवर्तकस्य सिद्ध-