पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विभावनालंकारः ३.४ ] अलंकारचन्द्रिकासहितः। ९९ अन्न लाक्षारसासेकरूपकारणाभावेऽपि रक्तिमा कथितः । स्वाभाविकत्वेन विरोधपरिहारः। यथावा- . अपीतक्षीबकादम्बमसंमृष्टामलाम्बरम् । अप्रसादितसूक्ष्माम्बु जगदासीन्मनोरमम् ॥ अत्र पानादिप्रसिद्धहेत्वभावेऽपि क्षीबत्वादिनिबद्धम् । विभाव्यमानशर- समयहेतुकत्वेन विरोधपरिहारः। यथावा---- वरतनुकबरीविधायिना सुरभिनखेन नरेन्द्रपाणिना । अवचितकुसुमापि वल्लरी समजनि वृन्तनिलीनषट्पदा । अन्न वल्ला पुष्पाभावेऽपि भृङ्गालिङ्गनं निबद्धं तत्र वरतनुकबरीसंक्रान्त- सौरभनरपतिनखसंसर्गरूपं हेत्वन्तरं विशेषणमुखेन दर्शितमिति विरोध- परिहारः ॥ ७ ॥ हेतूनामसमग्रत्वे कार्योत्पत्तिश्च सा मता। अस्त्रैरतीक्ष्णकठिनैर्जगजयति मन्मथः ॥ ७८॥ . - अत्र जगजये साध्ये हेतूनामखाणामसमग्रत्वतीक्ष्णत्वादिगुणवैकल्यम् । यथावा- उद्यानमारतोताचूतचम्पकरेणवः। उदयन्ति पान्थानामस्पृशन्तो विलोचने ॥ लक्षणमाद्यप्रकारविशेषलक्षणं च बोध्यम् । तत्रायं दर्शितमेव । द्वितीयं तु कार- णान्विताभावकथनपूर्वकं कार्योत्पत्तिकथनमित्युदाहरणविशेषबलादेव गम्यत इति विविच्य न दर्शितम् । प्रतिबन्धके सति कार्योत्पत्तिरूपे तृतीयप्रकारेऽतिव्याप्तेर्वा- रणायान्वितेति । तत्र प्रतिबन्धस्य वस्तुतः कारणाभावरूपस्य कथनेपिन कार- भान्वितत्वेन कथन मिति तन्निरासः।प्रकारपश्चकेऽपि कारणान्विताभावस्थार्थतो गम्यखात्कथनेति ॥ अप्यलाक्षेति ॥ लाक्षारसेन आसमन्तासिकं लाक्षारसा- सितम् । पश्चान्नजसमासः। तस्याः कामिन्याः॥ अपीतेति ॥ अपीताः पान- शून्याः क्षीबा मत्ताः कादम्बाः कलहंसा यत्र । तथा असंमृष्टं संमार्जनशून्यममल- मम्बरमाकाशं यत्र । एवमप्रसादितं वस्नगालनकतकक्षोदप्रक्षेपादिना यत्प्रसाद तच्छून्यं सूक्ष्म लभ्वम्बु यत्र एवंभूतं जगन्मनोरममासीदिखन्वयः । परमार्थ- तस्तु शुद्धाम्ब्वित्येव काव्यादर्श दृष्टः पाठः । विभाव्यमानेति वर्ण्यमाने- त्यर्थः ॥ वरेति ॥ वरतनोः केशपाशरचनासंपादकेनातएव सुरमिनखेन रानो हस्तेनावचितकुसुमा लूनपुष्पापि लता वृन्तासकभ्रमरा संजावेत्यर्थः ॥ ७ ॥ हेतुनामिति ॥ असमग्रत्वे हेतुतावच्छेदकस्य धर्मस्य तत्संबन्धस्य वा वैकल्ये सति। अस्वैरिति धर्मवैकस्योदाहरणम् । संबन्धवैकल्ये उदाहरति-उद्यानेति॥ विलोचने कर्मभूते। उदनयन्ति । उद्ताश्रूणि कुर्वन्तीत्यर्थः॥ क्रियेति बाल- र्थखाभिप्राय पर्शनस्य संयोगरूपखात् । इमां द्वितीयप्रकाररूपा विभावनाम्॥