सामग्री पर जाएँ

पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९६
कुवलयानन्दः । [ आक्षेपालंकारः ३२


आक्षेपालंकारः ३२

आक्षेपः स्वयमुक्तस्य प्रतिषेधो विचारणात् ।
[]चन्द्र संदर्शयात्मानमथवास्ति प्रियामुखम् ॥ ७३ ॥

 अन्न प्रार्थितस्य चन्द्रदर्शनस्य प्रियामुखसस्वेनानर्थक्यं विचार्याथवेत्यादि- सूचितः प्रतिषेध आक्षेपः । यथावा---

साहित्यपाथोनिधिमन्धनोत्थं कर्णामृतं रक्षत हे कवीन्द्राः ।
यत्तस्य दैत्या इव लुण्ठनाय कायार्थचोराः प्रगुणीभवन्ति ॥
गृह्णन्तु सर्वे यदि वा यथेच्छ नास्ति क्षतिः क्कापि कवीश्वराणाम् ।
रत्नेषु लुप्तेषु बहुव्वमत्यैरघापि रत्नाकर एव सिन्धुः ॥

 अत्र प्रथमक्ष्लोकेन प्रार्थितस्य काव्यार्थचोरेभ्यो रक्षणस्य स्वोल्लिखितवैचित्र्याणां समुद्रगतरत्नजालवदक्षयत्वं विचिन्त्य प्रतिषेध आक्षेपः ॥ ७३ ॥

निषेधाभासमाक्षेपं बुधाः केचन मन्वते ।
[]नाहं दुती तनोस्तापस्तस्याः कालानलोपमः ॥ ७४ ॥

 केचिदलंकारसर्वस्वकारादय इत्यमाहुः । न निषेधमात्रमाक्षेपः किंतु यो निषेधो बाधितः सन्नर्थान्तरपर्यवसितः किंचिद्विशेषमाक्षिपति स आक्षेपः । यथा दूत्या उक्तौ नायं दूतीति निषेधो बाधितत्वादाभासरूपः संघटनकालोचितकैतववचनपरिहारेण यथार्थवादित्वे पर्यवस्यन्निदानीमेवागत्य नायिकोजीवनीयेति विशेषमाक्षिपति । यथावा--


स्फुटेऽप्यप्रस्तुतार्थे तात्पर्य गमयतीति भावः ॥ ७२ ॥ इति व्याजनिन्दाप्रकरणम् ॥ ३१॥

 आक्षेप इति ॥ स्वयमुक्तस्यार्थस्य किंचिन्निभित्तममिसंधाय प्रतिषेध आक्षेपः ॥ सूचितेति ॥ पक्षान्तरपरिग्रहस्य पूर्वपक्षप्रतिक्षेपनियतत्वादिति भावः। नचात्र कैमर्थ्यरूपपञ्चमप्रतीपप्रभेदेन गतार्थत्वं शङ्कनीयम् । तस्यात्र प्रतिषेकप्रतिनिमित्तत्वेनाप्राधान्यात् । असंदिग्धमुदाहरति-साहित्येति ॥ हे कविश्रेष्ठाः, साहित्यसमुद्ररूपाणी भारतादीनां मन्थनादिव परिशीलनादुत्थितमुत्पनं कर्णयोरमृतमिवालादकं काव्यं रक्षत। यद्यस्मात्तस्य लुण्ठनार्थ दैत्या इव काव्यरूपस्यार्थस्य वित्तस्य चोराः प्रगुणीभवन्ति बहुलीभवन्तीत्यन्वयः॥गृह्णन्त्विति ॥ यदि वेत्यववेत्यनेन समानार्थ । लुप्तेषु अपहृतेषु ॥ स्वोल्लिखितेति ॥ स्वयमुद्भावितेत्यर्थः । वैचित्र्याणामर्थवैचित्र्याणाम ॥७३॥ अर्थान्तरपर्यवसितः अर्थान्तरप्रतियोगिकत्वेनावस्थितः । विशेष व्यङ्गर्थविशेषम् ॥ संघटनेति॥ संयोजनकाले उचित यहकैतववचनं मिथ्यावचनं तस्य परिहारस्तेनोपलक्षिते यथार्थवादित्वे इत्यर्थः। नाई दूतीत्यत्र हि दूतीपदेन दूतीगतमिथ्यावादिलविशिष्ट लक्ष्यते । तदभावस्तु यद्यपि न यथार्थवादित्वं तथापि तदुपलक्ष्यलात्तत्पर्यवसानोक्तिः॥


  1. "चन्द्रं संद'.
  2. 'नायं दूती'