पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आक्षेपालंकारः ३२ ] अलंकारचन्द्रिकासहितः। नरेन्द्रमौले न वयं राजसंदेशहारिणः । जगरकटम्बिनस्तेऽद्य न शत्रः कश्चिदीक्ष्यते ॥ अत्र संदेशहारिणामुक्तौ न वयं संदेशहारिण इति निषेधोऽनुपपश्नः। सं. धिकालोचितकैतववचनपरिहारेण यर्थवादित्वे पर्यवस्यन्सर्वजगतीपालकस्य तव न कश्चिदपि शत्रुभायेनावलोकनीयः किंतु सर्वेऽपि राजानो मृत्यभावेन संरक्षणीया इति विशेषमाक्षिपति ॥ ७४ ॥ आक्षेपोऽन्यो विधौ व्यक्ते निषेधे च तिरोहिते । गच्छ गच्छसि चेत्कान्त तत्रैव स्याजनिर्मम ॥ ७५ ॥ अत्र गच्छेति विधिय॑तः । मा गा इति निषेधस्तिरोहितः कान्तोद्देश्य- देशे निजजन्मप्रार्थनयात्ममरणसंसूचनेन गर्भितः । यथावा- न चिरं मम तापाय तव यात्रा भविष्यति । । यदि यास्यसि यातव्यमलमाशङ्कयापि ते॥ अत्रापि न चिरं मम तापायेति खमरणसंसूचनेन गमननिषेधो गी- कृतः ॥ ७५ ॥ नरेन्द्रेति ॥ संधिकरणार्थमागतानां दूतानामुतिः । नरेन्द्राणां राज्ञां मौलिः श्रेष्ठः ॥ संधीति ॥ संधिकाले उचितं यत्कैतववचनं तत्परिहारेणोपलक्षिते इति. पूर्ववदर्थः । अत्राहुः-संदेशहारिषु तनिषेधस्य बाधात् संदेशहारिपदेन कैतववचनप्रयोक्तृलविशिष्टं लक्ष्यते । तनिषेधेन च सत्यवादिलरूपो विशेषो व्यज्यत इत्ययमेव निषेधेन विशेषाक्षेपो नतु सर्वजगतीपालकस्येत्यादिर्विशेषो निषेधेन केवलेनाक्षेप्तुं शक्यते । तस्य जगत्कुटुम्बिन इत्युत्तरार्धगम्यत्वात् । एवं स्थिते कथमुच्यते तव न कश्चिदपीत्यादीति । तत्रोच्यते-न वयमिति निषेधाभावे केवलादुत्तरार्धानोक्तविशेषावगतिः स्यात् । संधिकालोचितकैत- ववचनत्वेनैव संभाव्यमानसात् । अपितु तत्कालीनसंध्यभिप्रायमात्रावगमः। निषेधेन तु तत्परिहारे युक्त उक्त विशेषावगम इत्यनुभवसाक्षिकमेतत् । सत्य- वादिलादिकं तूक्तविशेषे व्यञ्जनीये द्वारभूतं नतु तदेव । विशेषरूपमचमत्कारि लात् । अतएव नाहं दूतीत्यत्र वस्तुवादिलादिर्विशेषों व्यज्यत इत्यलंकारसर्व- स्वकारः। वस्तुवादिलमादिरभूतं यस्य ताहो विशेष इति तदर्थ इति । एतेन नाहं दूतीति पूर्वोदाहरणमपि व्याख्यातम् ।। ७४॥ अस्यैव प्रभेदान्तर- माह-आक्षेपोऽन्य इति ॥ प्रार्थनया मरणसूचनद्वारेण । गर्भितो व्यङ्ग्यत्वे- नान्तर्भावितः । एतच्च तिरोहित इत्यस्यार्थकथनम् । तदेवमपहुतिभिन्नत्वे सति चमत्कारकारिनिषेधत्वं सामान्यलक्षणं बोध्यम् ॥ ७५ ॥ इत्याक्षेपालंकारप्रक- • रणम् ॥३२॥ १'न्यविधौ व्यचे प्रतिषेधतिरोहिते'.