जनिन्दारूपेयमप्रस्तुतप्रशंसेति चमत्कारातिशयः । एवमेव व्याजस्तुतिमूलकव्याजस्तुतिरूपाप्यप्रस्तुतप्रशंसा दृश्यते । यथावा---
|
लावण्यद्रविणव्ययो न गणितः क्लेशो महानर्जितः |
अत्रप्रस्तुतायास्तरुण्याः सृष्टिनिन्दाव्याजेन तन्निन्दाव्याजेन च तत्सौन्दर्यप्रशंसा प्रशंसनीयत्वेन,कविविवक्षितायाःस्वकवितायाः सृष्टिनिन्दाच्याजेन तन्निन्दाव्याजेन च शब्दार्थचमत्कारातिशयप्रशंसायां पर्यवस्थति । अस्य क्ष्लोकस्य वाच्यार्थविषये यद्यपि नात्यन्तसामञ्जस्य,नहीमे विकल्पा वीतरागस्येति कल्पयितु शक्यम् । रसाननुगुणत्वाद्वीतरागहृदयस्याप्येवंविधविषयेष्वप्रवृत्तेश्च । नापि रागिण इति युज्यते । तदीयविकल्पेषु वराकीति कृपणतालिङ्गितस्य हतेत्यमङ्गलोपहितस्य च वचसोऽनुचितत्वात्तुल्यरमणाभावादित्यस्यात्यन्तमनुचितत्वाञ्च स्वात्मनि तदनुरूपतासंभावनायामपि रागित्वे पशुप्रायता स्यात्, तथापि विवक्षितप्रस्तुतार्थतायां न किंचिदसामञ्जस्यम् । अतएवास्य क्ष्लोकस्याप्रस्तुतप्रशंसापरत्वमुक्तं प्राचीनैः वाच्यासंभवेऽप्यप्रस्तुतप्रशंसोपपत्तेरिति ॥ ७२ ॥
स्तुतप्रशंसायाः । सैव अप्रस्तुतप्रशंसैव ॥ लावण्येति ॥ इमां तन्वी तन्वता सृजता वेधसा चेतसि कोऽर्थः कामनाविषयभूतो विनिहितोऽभिसंहितः । किं प्रयोजनमुद्दिश्येयं निर्मितेत्यर्थः । नन्वनायासेनातिसुन्दरतन्वीनिष्पत्तिरेव प्रयोजन तदभावेऽपि वा लीलामात्रेण तन्निर्माणं स्यादत आह--लावण्येत्यादि॥ यतो लावण्यरूपस्य द्रविणस्य धनस्य व्ययो न गणितः। महान्क्लेशोऽर्जितः कृतः । स्वेच्छाचारिणो जनस्य उदासीनस्यापि हृदये चिन्तैव ज्वरो निर्मितः । एषापि वराकी दीना खगुणानुरूपस्य वरस्याभावाद्धतेव हता नष्टपाया। तथाच बह्वायाससाध्यवादनिष्टानुबन्धित्वाञ्च न तन्व्याः प्रयोजनत्वं नापि लीलामात्रेण तन्निर्माणं च संभवतीति भावः । तन्निन्दाव्याजेन तरुणीनिन्दाव्याजेन । तत्सौन्दर्यप्रशंसा शब्दार्थचमत्कारातिशयप्रशंसायां पर्यवस्यतीत्यन्वयः। तन्निन्दाव्याजेन स्वकवितानिन्दाव्याजेन । कविता सौन्दर्यरूपा । प्रस्तुतार्थस्यात्यन्तमस्फुटत्वात्कथमस्य पद्यस्य तत्परसमित्याशङ्कामपनेतुं भूमिकामारचयति-अस्येत्यादि॥रसाननुगुणत्वादिति ॥ वीतरागे शृङ्गारस्यासंभवादिति भावः । ननु शृद्धारासंभवेऽपि तन्वीनिर्माणनिन्दया शान्तरसपरिपोषादस्त्येव रसानुगुणत्वमत आह-वीतरागेति ॥ नापि रागिण इत्यनन्तरमिमे विकल्पा इत्यनुषज्यते । विवक्षितेति ॥ स्वकवितासौन्दर्यरूपेत्यर्थः । अतएव वाच्यार्थासामञ्जस्यादेव । वाच्यासंभवेऽपि चाच्यसामजस्यासंभवेऽपि । तथाच वाच्यार्थासामन्जस्यमेवा-
- ↑ 'संहृतोऽत्र विधिना तन्वी'