पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ११-१६]
५३
इन्द्रेण सप्रशंसं स्वकार्यनिर्देशः

हरस्यापि पिनाकपाणेः' (३।१०) इत्यादिनेति शेषः । त्वया नोऽस्माकं कार्यं प्रतिपन्नकल्पमङ्गीकृतप्रायम् । 'ईषदसमाप्तौ-' (पा.५।३।६७) इत्यादिना कल्पप्प्रत्ययः । कथमेतदत आह-इदानीमुच्चैरुन्नता द्विषो येषां तेषामुच्चैर्दिषां यज्ञांशभुजां देवानाम् । एतेन द्विषल्लुप्तयज्ञभागत्वं सूच्यते । ईप्सितमाप्नुमिष्टमेतदेव हरे बाणप्रयोगरूपमेव निबोध, हरायत्तं बुध्यस्वेत्यर्थः । 'बुध बोधने' इति धातोर्लोट् । अत्र 'आशंसता प्रार्थयमानेन' इति नाथच्याख्यानमनाथव्याख्यानम् । आङ्पूर्वयोः शास्तिशंसत्योरिच्छार्थत्वे आत्मनेपदनियमात् , याज्जार्थत्वस्यामामाणिकत्वात् , 'कुर्यां हरस्यापि --' (३।१०) इत्यत्रानयोरभावादयोगाच्चेति ॥ १४ ॥

 किं तत्कार्यं, कथं वा तस्य हरायत्तत्वं, कुतो वा मदपेक्षेत्यत्राह-

 अमी हि वीर्यप्रभवं भवस्य जयाय सेनान्यमुशन्ति देवाः ।
 स च त्वदेकेषुनिपातसाध्यो ब्रह्माङ्गभूर्बह्मणि योजितात्मा ॥१५॥

 अमी इति ॥ हि यस्मादमी देवा जयाय शत्रुजयार्थं भवस्य हरस्य वीर्यप्रभवं तेजःसंभूतं सेनान्यं सेनापतिमुशन्ति कामयन्ते । 'वश कान्तौ' इति धातोर्लट् । ब्रह्मणां सद्योजातादिमन्त्राणामङ्गानां हृदयादिमन्त्राणां भूः स्थानं ब्रह्माङ्गभूः, कृतमव्रन्यास इत्यर्थः । ब्रह्मणि निजतत्त्वे 'वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा' इत्युभयत्राप्यमरः । योजितात्मा नियमितचित्तः, मन्त्रन्यासपूर्वकं ब्रह्म ध्यायन्नित्यर्थः । स भवश्च त्वदेकेषोस्तवैकबाणस्य निपातेन साध्यः, अनन्यसाध्योऽयमस्मिन्नवसर इति भावः ॥ १५ ॥

 तस्मै हिमाद्रेः प्रयतां तनूजां यतात्मने रोचयितुं यतस्व ।
 योषित्सु तद्वीर्यनिषेकभूमिः सैव क्षमेत्यात्मभुवोपदिष्टम् ॥१६॥

 तस्मा इति ॥ यतात्मने नियतचित्ताय तस्मै भवाय । 'रुच्यर्थानां प्रीयमाणः' (पा.१।४।३३) इति संप्रदानत्वाच्चतुर्थी । प्रयतां हिमाद्रे स्तनूजां पार्वतीं रोचयितुं यतस्व । भवितव्यं चात्र पार्वत्यैवेत्याह --योषित्सु स्त्री पु मध्ये । 'यतश्च निर्धारणम्' (पा.२।३।४१) इति सप्तमी । क्षमा शक्ता तस्य हरस्य वीर्यं रेतस्तस्य निषेकः क्षरणं तस्य भूमिः क्षेत्रं सा पार्वत्येवेत्यात्मभुवा ब्रह्मगोपदिष्टम् । 'उभे एव क्षमे वोढुम्' (२।६०) इत्यादिनोक्तमित्यर्थः ॥ १६ ॥


पाठा०-१ ब्रह्मनियोजितात्मा. २ जितात्मने. ३ योजयितुं.