पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२
[ सर्गः ३
कुमारसंभवे

 अथोरुदेशादवतार्य पादमाक्रान्तिसंभावितपादपीठम् ।
 संकल्पितार्थे विवृतात्मशक्तिमाखण्डलः काममिदं बभाषे ॥११॥

 अथेति ॥ अथ स्मरवाक्यश्रवणानन्तरमाखण्डलः सहस्राक्ष ऊरुदेशात्पादमाक्रान्त्याऽऽक्रमणेन संभावितं पादपीठं यस्मिंस्तद्यथा तथावतार्य संकल्पितार्थे हरचित्ताकर्षणरूपे विषये विवृतात्मशक्तिम् । 'कुर्यां हरस्थापि-' (३।१०) इत्यादिना प्रकटीकृतस्वसामर्थ्यं कामं स्मरमिदं वक्ष्यमाणं बभाषे ॥ ११ ॥

 सर्वं सखे ! त्वय्युपपन्नमेतदुभे ममास्त्रे कुलिशं भवांश्च ।
 वज्रं तपोवीर्यमहत्सु कुण्ठं त्वं सर्वतोगामि च साधकं च ॥१२॥

 सर्वमिति ॥ हे सखे ! 'सखे' इति संबोधनं गौरवार्थम् । सर्वमेतत्त्वय्युपपन्नं सिद्धम् । मम कुलिशं वज्रं भवांश्चोभे अस्त्रे, तत्र वज्रं तपोवीर्येण तपोबलेन महत्सु प्रबलेषु कुण्ठं प्रतिबद्धप्रसरम् ; त्वमस्त्रं सर्वतोगामि च साधकं च, तापसेष्वप्यकुण्ठमित्यर्थः ।। १२ ॥

 अवैमि ते सारमतः खलु त्वां कार्ये गुरुण्यात्मसमं नियोक्ष्ये ।
 व्यादिश्यते भूधरतामवेक्ष्य कृष्णेन देहोद्वहनाय शेषः ॥१३॥

 अवैमीति ॥ हे सखे ! ते सारं बलमवैमि वेद्मि; अतः खल्वत एवात्मसमं मत्तुल्यं त्वां गुरुणि महति कार्ये 'तस्मै हिमाद्रेः-'(३।१६) इति वक्ष्यमाणे नियोक्ष्ये । 'स्वराद्यन्तोपसर्गादिति वक्तव्यम्' (वा. ९३९) इति वार्तिकादात्मनेपदनियमः । तथा हि-सारपरीक्षापूर्वक एव सर्वत्र नियोग इत्याह-कृष्णेन विष्णुना । धरतीति धरः । पचाद्यच् । भुवो धरो भूधरस्तस्य भावस्तत्तां भूधरताम् , भूधरणशक्तिमित्यर्थः । अवेक्ष्य ज्ञात्वा । शेषः सर्पराजो देहोद्वहनाय स्वदेहमुद्वोढुम् । 'क्रियार्थोपपदस्थ-' (पा.२।३।१४) इत्यादिना चतुर्थी । व्यादि- श्यते नियुज्यते । शेषशायी हि भगवान् ॥ १३ ॥

 नियोगाङ्गीकारं सिद्धवत्कर्तुमाह-

 आशंसता बाणगतिं वृषाङ्के कार्यं त्वया नः प्रतिपन्नकल्पम् ।
 निबोध यज्ञांशभुजामिदानीमुच्चैर्द्विषामीप्सितमेतदेव ॥ १४ ॥

 आशंसतेति ॥ वृषाके हरे बाणगति बाणप्रसरमाशंसता कथयता । 'कुर्यां


पाठा०-१ अक्रान्ति. २ संकल्पितेऽर्थे. ३ यज्ञाङ्ग. ४ अर्थमंत्रम्.