पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ६-१०]
५१
हरस्यापि धैर्यहरणे सामर्थ्यमिति स्मरजल्पनम्

 त्रिविधा नायिका स्वकीया परकीया साधारणी चेति । तत्र परकीयां प्रत्युक्तम् । इतरे प्रत्याह-

 कयासि कामिन् ! सुरतापराधात्पादानतः कोपनयावधूतः ।
 यस्याः करिष्यामि दृढानुतापं प्रवालशय्याशरणं शरीरम् ॥८॥

 कयेति ॥ हे कामिन्कामुक ! सुरतापराधात् , अन्यासङ्गादित्यर्थः । पादानतः प्रणतः सन् । कोपनया कोपनशीलया कया स्त्रियावधूतस्तिरस्कृतोऽसि ? तस्याः शरीरं दृढानुतापं गाढपश्चात्तापमत एव प्रवालशय्याशरण करिष्यामीति ॥८॥

 प्रसीद विश्राम्यतु वीर ! वज्रं शरैर्मदीयैः कतमः सुरारिः ।
 बिभेतु मोघीकृतबाहुवीर्यः स्त्रीभ्योऽपि कोपस्फुरिताधराभ्यः ९

 प्रसीदेति ॥ हे वीर ! प्रसीद प्रसन्नो भव । वज्रं कुलिशं विश्राम्यतु, उदास्तामित्यर्थः । मदीयैः शरैर्मोघीकृतबाहुवीर्यो विफलीकृतभुजशक्तिः कतमो दैत्यदानवादिषु यः कश्चन सुरारिः । 'वा बहूनां जातिपरिप्रश्ने डतमच्' (पा. ५।३।९३) इति डतमच्प्रत्ययः। कोपेन स्फुरिताधराभ्यः स्त्रीभ्योऽपि बिभेतु, किमु वक्तव्यं पुंभ्य इत्यर्थः । सकृद्धीतः सर्वतो बिभेतीति भावः । 'भीत्रार्थानां भयहेतुः' (पा. ११४।२५) इत्यपादानत्वात् पञ्चमी ॥ ९ ॥

 तव प्रसादात्कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा ।
 कुर्यां हरस्थापि पिनाकपाणेर्धैर्यच्युति के मम धन्विनोऽन्ये ॥१०॥

 तवेति ॥ किं बहुना, तव प्रसादादनुग्रहात् कुसुमायुधोऽप्यतिदुर्बलास्त्रोऽप्यहमेकं मधु वसन्तमेव सहायं लब्ध्वा पिनाकः पाणौ यस्य स पिनाकपाणिः । 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः' (वा. १४२५) तस्य हरस्यापि । हरः पिनाकी चेत्यतिदारुण इति भावः । धैर्यच्युतिं धैर्यहानि कुर्याम्, कर्तुं शक्नुयामित्यर्थः । 'शकि लिङ् च' (पा. ३।३।१७२) इति शक्याथै लिङ् । अन्ये धन्विनो धनुर्भूतो मम के , न केऽपीत्यर्थः । 'किं'शब्दः कुत्सायाम् । 'कुत्साप्रश्नवितर्केषु क्षेपे किंसब्द इष्यते' इति शाश्वतः ॥ १० ॥


पाठा०-१ सहसापराधात्, २ तस्याः.