पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४
[ सर्गः ३
कुमारसंभवे

 सापीदानीं संनिकृष्टैव तस्येत्याह-

 गुरोनियोगाच्च नगेन्द्रकन्या स्थाणुं तपस्यन्तमधित्यकायाम् ।
 अन्वास्त इत्यप्सरसां मुखेभ्यः श्रुतं मया मत्प्रणिधिः स वर्गः १७

 गुरोरिति ॥ नगेन्द्र कन्या पार्वती च गुरोः पितुर्नियोगाच्छासनादधित्यकायां हिमाद्रेरूर्ध्वभूमौ । 'भूमिरूर्ध्वमधित्यका' इत्यमरः । 'उपाधिभ्यां त्यकन्नसन्नारूढयोः' (पा. ५।२।३४) इति त्यकन्प्रत्ययः । तपस्यन्तं तपश्चरन्तम् । 'कर्मणो रोमन्थतपोभ्यां वर्तिचरोः' (पा. ३।१।१५) इति क्यङ्प्रत्ययः,ततः शतृप्रत्ययः । स्थाणुं रुद्रमन्वास्ते, उपास्त इत्यर्थः। इतीदं मयाप्सरसां मुखेभ्यः श्रुतम् । न चैतदैतिह्यमात्रमित्याह-स वर्गः सोऽप्सरसां गणो मत्प्रणिधिर्मम गूढचरः । 'प्रणिधिः प्रार्थने चरे' इति यादवः ॥ १७ ॥

 तद्गच्छ सिद्ध्यै कुरु देवकार्यमर्थोऽयमर्थान्तरभाव्य एव ।
 अपेक्षते प्रत्ययमुत्तमं त्वां बीजाङ्कुरः प्रागुदयादिवाम्भः ॥१८॥

 तदिति ॥ तत्तस्मास्तिद्ध्यै कार्यसिद्ध्यर्थं गच्छ देवकार्यं कुरु। आशिषि लोट् । अयमर्थः प्रयोजनमर्थान्तरभाव्यः कारणान्तरसाध्य एव; तच्च कारणान्तरं पार्वतीसंनिधानमिति भावः । 'अर्थः प्रकारे विषये वित्तकारणवस्तुषु । अभिधेये च शब्दानां वृत्तौ चापि प्रयोजने ॥' इति विश्वः । तथापि बीजसाध्योऽङ्कुरो बीजाङ्कुर उदयादुत्पत्तेः प्रागम्भ इव त्वामुत्तमं प्रत्ययं चरमं कारणमपेक्षते । 'प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु' इत्यमरः । तस्मादस्मिन्नर्थे तव चरमसहकारित्वादनन्यसाध्योऽयमर्थ इति भावः ॥ १८ ॥

 तस्मिन्सुराणां विजयाभ्युपाये तवैव नामास्त्रगतिः कृती त्वम् ।
 अप्यप्रसिद्धं यशसे हि पुंसामनन्यसाधारणमेव कर्म ॥१९॥

 तस्मिन्निति ॥ सुराणां विजयाभ्युपाये जयस्योपायभूते तस्मिन्हरेऽस्त्रगतिरस्त्रप्रसरस्तवैव नाम । 'नाम' इति संभावनायाम् । अन्येषां तु संभावनापि नास्तीति भावः । अतस्त्वं कृती कृतमस्यास्तीति कृती कृतार्थः । तथा हि- अप्रसिद्धमप्यनन्यसाधारणमेव कर्म पुंसां यशसे हि; इदं तु प्रसिद्धमसाधारणं चेत्यतियशस्करमिति भावः ॥ १९॥


पाठा०-१ अध्यास्त. २ लभ्य. ३ प्रत्ययसङ्गलब्धौ. ४ अस्मिन्. ५ काम.