पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० १७-२२]
५५
देवकार्यमनुष्ठातुं मदनस्य प्रस्थानम्

 प्रोत्साहनार्थं स्तौति-

 सुराः समभ्यर्थयितार एते कार्यं त्रयाणामपि विष्टपानाम् ।
 चापेन ते कर्म न चातिहिंस्रमहो बतासि स्पृहणीयवीर्यः ॥२०॥

 सुरा इति ॥ एते सुराः समभ्यर्थयितारो याचितारः । कार्यं प्रयोजनं त्रयाणां विष्टपानामपि संबन्धि, सर्वलोकार्थमित्यर्थः । कर्म ते तव चापेन, न त्वन्येनेति भावः। अतिहिंस्रमतिघातुकं च न । 'अहो बत' इति संबोधने । 'अहो बतानुकम्पायां खेदे संबोधनेऽपि च' इति विश्वः । अथवा अहो आश्चर्ये । 'बत' इत्यामन्त्रणे संतोषे चेति । 'बतामन्त्रणसंतोषखेदानुक्रोशविस्मये' इति विश्वः । स्पृहणीयवीर्योऽस्याश्चर्यविक्रमोऽसि । 'आश्चर्यं स्पृहणीयं च' इति नानार्थकोशः ॥ २० ॥

 मधुश्च ते मन्मथ ! साहचर्यादसावनुक्तोऽपि सहाय एव ।
 समीरणो नोदयिता भवेति व्यादिश्यते केन हुताशनस्य ॥२१॥

 मधुरिति ॥ हे मन्मथ ! असौ मधुश्च वसन्तोऽपि ते साहचर्यात्सहचरत्वादेवानुक्तोऽप्यप्रेरितोऽपि सहायः सहकार्येव । तथा हि-समीरणो वायुर्हुताशनस्याग्नेर्नोदयिता प्रेरको भवेति केन व्यपदिश्यते ? अत्र मधुसमीरणयोरुक्तिमन्तरेण सहायताकरणं सामान्यधर्मः । स च वाक्यद्वये वस्तुप्रतिवस्तुभावेन पृथङ्निर्दिष्ट इति प्रतिवस्तूपमालंकारोऽयम् । तदुक्तम्- “यत्र सामान्यनिर्देशः पृथग्वाक्यद्वये यदि । गम्यौपम्याश्रिता सा स्यात्प्रतिवस्तूपमा मता ॥" इति ॥ २१ ॥

 तथेति शेषामिव भर्तुराज्ञामादाय मूर्धा मदनः प्रतस्थे ।
 ऐरावतास्फालनकर्कशेन हस्तेन पस्पर्श तदङ्गमिन्द्रः ॥ २२ ॥


पाठा०-१ समीरणश्चोदयिता; समीरणः प्रेरयिता. २ मालामिव. ३ दिग्वारणा.


टिप्प०-1 विवरणकारास्तु 'उपमायां तु पदार्थयोः साम्यम् , तच्च वाच्यम् , अत्र (प्रतिवस्तूपमायां) तु वाक्यार्थयोः; तदपि गम्यमेवेति ततो भेदः। साम्यप्रतिपादकानां इवादीनां पदत्वेन तैः पदार्थयोरेव साम्यं बोध्यते "पदार्थः पदार्थेनान्वेति" इति नियमात्'

इत्याहुः।