पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५६
[ सर्गः ३
कुमारसंभवे

 तथेति ॥ तथास्त्विति भर्तुः स्वामिनः शेषामिव प्रसाददत्तां मालामिव । 'प्रसादान्निजनिर्माल्यदाने शेषेति कीर्तिता' इति विश्वः । 'माल्याक्षतादिदाने स्त्री शेषा' इति वैजयन्ती-केशवौ । आज्ञां मूर्ध्नादाय शिरसा गृहीत्वा मदनः प्रतस्थे । 'समवप्रविभ्यः स्थः' (पा. १।३।२२) इत्यात्मनेपदम् । इन्द्र ऐरावतास्फालनेन प्रोत्साहनार्थेन ताडनेन कर्कशेन परुषेण हस्तेन तदङ्गं मदनदेहं पस्पर्श, हस्तस्पर्शेन संभावयामासेत्यर्थः । 'शेषामिवाज्ञाम्' इत्यत्र साधकबाधकप्रमाणाभावादुपमोत्प्रेक्षयोः संदेहसंकर इति । यदि भर्त्रा शेषापि दत्ता तदा तामाज्ञामिवेत्यु- पमा । अथ न दत्ता तर्हि शेपात्वेनोत्प्रेक्षिता । शेषादानं तु संदिग्धमिति ॥२२॥

 स माधवेनाभिमतेन सख्या रत्या च साशङ्कमनुप्रयातः ।
 अङ्गव्ययप्रार्थितकार्यसिद्धिः स्थाण्वाश्रमं हैमवतं जगाम ॥२३॥

 स इति । स मदनोऽभिमतेन प्रियेण सख्या सुहृदा माधवेन वसन्तेन रत्या स्वदेव्या च साशङ्कं अतिसंकटमापतितम्' इति सभयमनुप्रयातः सन् । तथाङ्गस्य व्ययेनापि प्रार्थिता कार्यसिद्विर्येन स तथोक्तः, शीर्वा मृत्वापि सर्वथा देवकार्यं साधयिष्यामीति कृतनिश्चयः सन्नित्यर्थः । हैमवतं हिमवति भवं स्थाणो रुद्रस्याश्रमं जगाम ॥२३॥

 तस्मिन्वने संयमिनां मुनीनां तपःसमाधेः प्रतिकूलवर्ती ।
 संकल्पयोनेरभिमानभूतमात्मानमाधाय मधुर्जजृम्भे ॥ २४॥

 तस्मिन्निति ॥ तस्मिन्वने स्थाण्वाश्रमे संयमिनां समाधिमतां मुनीनां तपसः समाधेरेकाग्रतायाः प्रतिकूलं वर्तत इति प्रतिकूलवर्ती विरोधी मधुर्वसन्तः संकल्पयोनेर्मनोभवस्याभिमानभूतम् , गर्वहेतुभूतमित्यर्थः । कार्यकारणयोरभेदोपचारः । आत्मानं निजं स्वरूपमाधाय संनिधाय जजृम्भे प्रादुर्बभूव, वसन्तधर्मान्प्रवर्तयामासेत्यर्थः ॥ २४ ॥


पाठा०-१ कर्मसिद्धिः. २ तपःसमाधिप्रतिकूलवी. ३ आदाय,


टिप्प०-1 बालबोधिनीकारस्तु 'मालां' इति पाठमादृत्य 'शिरसा मालामिव मालेव माल्यं मंगलार्थ प्रसन्नस्रजमलंकारतामप्युपादायेत्यर्थः । प्रयाणकाले हि मंगलार्थं

माला दीयते इति शिष्टाचारः' इत्याह ।