पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०
[ सर्गः ३
कुमारसंभवे

यावत् । तत्र ये क्लेशा जन्मजरामरणादयस्तेभ्यो भयान्मुक्तिमार्गं प्रपन्नस्तं वद । यतः सोऽप्यारेचिताभिरेकैकशो विवर्तिताभिर्भूमिश्चतुरैः सुन्दरीणां कटाक्षैर्बद्धश्चिरं तिष्ठतु । आरेचितलक्षणं तु- स्याद्भ्रुवोर्ललिताक्षेपादेकस्या एव रेचितम् । तयोर्मूलसमुत्क्षेपं कौटिल्याद्भ्रुकुटिं विदुः ॥ इति ॥ ५॥

 धर्मार्थावधिकृत्याह-

 अध्यापितस्योशनसापि नीतिं प्रयुक्तरागप्रणिधिर्द्विषस्ते ।
 कस्यार्थधर्मों वद पीडयामि सिन्धोस्तटावोघ इव प्रवृद्धः ॥६॥

 अध्यापितस्येति ॥ उशनसा शुक्रेण नीति नीतिशास्त्रमध्यापितस्यापि । 'अपि'शब्दाच्छुक्रशिष्याणामप्रधृष्यत्वं गम्यते । 'गतिबुद्धि-' (पा.१।४।५२) इत्यादिना द्विकर्मकादिधातोर्ण्यन्तात्प्रधाने कर्मणि क्तः । 'अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः' इति वचनात् । ते द्विषस्तव शत्रोः कस्यार्थधर्मौ प्रयुक्तः प्रहितो रागो विषयाभिलाष एवं प्रणिधितो येन सोऽहम् । 'प्रणिधिः प्रार्थने चरे' इति यादवः । प्रवृद्ध ओघः प्रवाहः सिन्धोर्नधास्तटाविव पीडयामि ? वद ॥६॥

 काममधिकृत्याह-

 कामेकपत्नीव्रतदुःखशीला लोलं मनश्चारुतया प्रविष्टाम् ।
 नितम्बिनीमिच्छसि मुक्तलज्जां कण्ठे स्वयंग्राहनिषक्तबाहुम् ।।७॥

 कामिति ॥ एकः पतिर्यस्याः सैकपत्नी पतिव्रता । 'नित्यं सपत्न्यादिषु' (पा. ४।११३५) इति ङीप् । तस्या व्रतं पातिव्रत्यं तेन दुःखशीला दुःखस्वभावाम् , दृढव्रतामित्यर्थः । 'शीलं स्वभावे सद्वृत्ते' इत्यमरः । चारुतया सुन्दरत्वेन हेतुना लोलं मनस्त्वञ्चित्तं प्रविष्टां कां नितम्बिनीं मुक्तलजां सतीं कण्ठे स्वयंग्राहनिषक्तबाहुम् । स्वयं गृह्णातीति स्वयंग्राहा । 'विभाषा ग्रहः' (पा. ३।१।१४३) इति णप्रत्ययः । न च जलचर एव ग्राह इति नियमः । जलचरे ग्राह एवेति नियमादिति । स्वयंग्राहा च सा निषक्तबाहुश्च तां तथाभूतामिच्छसि, त्वदर्थे पतिव्रतामपि व्रताद्भ्रंशयिष्यामीत्यर्थः । एतच्चेन्द्रस्य पारदारिकत्वादुक्तम् । तथा च श्रुतिः-अहल्यायै जारः' इति ॥ ७ ॥


पाठा०-१ प्रणिधे.