लोकाव्ययनिष्ठाखलर्थतनाम्' (पा. २।३।६९) इति षष्ठीनिषेधात् । इतो निषीदेहोपविशेति विसृष्टभूमिर्दत्तावकाशः सन् । भर्तुः स्वामिनः प्रसादमनुग्रहं मूर्धा प्रतिनन्ध संभाव्य मिथो रहसि । 'मिथोऽन्योन्यं रहस्यपि' इत्यमरः । एनमिन्द्रमेवं वक्ष्यमाणप्रकारेण वक्तुं प्राक्रमतोपक्रान्तवान् । 'प्रोपाभ्यां समर्थाभ्याम्' (पा. १।३।४२) इत्यात्मनेपदम् ॥ २॥
आज्ञापय ज्ञातविशेष ! पुंसां लोकेषु यत्ते करणीयमस्ति ।
अनुग्रहं संस्मरणप्रवृत्तमिच्छामि संवर्धितमाज्ञया ते ॥३॥
आज्ञापयेति ॥ हे पुंसां ज्ञातविशेष ज्ञातसार ! ज्ञातपुंविशेषेत्यर्थः । सापेक्षस्वेऽपि गमकत्वात्समासः। आज्ञापय, तदिति शेषः । उत्तरवाक्ये यच्छब्दप्रयोगान्न पूर्ववाक्ये तच्छब्दप्रयोगनिर्बन्धः । किं तदित्याह-लोकेषु ते तव यत्क- रणीयं कर्तन्यमस्ति । संस्मरणेन प्रवृत्तमुत्पन्नं ते तवानुग्रहं प्रसादमाज्ञया नियोगेन संवर्धितं वृद्धि गमितमिच्छामि । संस्मरणकृतमनुग्रहं केनचिन्नियोगेन वर्धय, कचित्कर्मणि नियुङ्क्ष्वेत्यर्थः । अन्यथा मे नास्ति परितोष इति भावः । तुमुन्नन्त- पाठे णिजर्थे यत्रः कार्यः ॥३॥
न च मे किंचिदसाध्यमस्तीत्याह-
केनाभ्यसूया पदकाङ्क्षिणा ते नितान्तदीर्धैर्जनिता तपोभिः ।
यावद्भवत्याहितसायकस्य मत्कार्मुकस्यास्य निदेशवर्ती ॥४॥
केनेति ॥ पदकाक्षिणा स्वाराज्यकामेन केन पुंसा नितान्तदीर्धैरतिप्रभूतैस्तपोभिस्ते तवाभ्यसूयेर्ष्या जनिता ? तं ब्रूहीति शेषः । किमर्थम् ? यावद्यतः स भवद्वैरी। अहितसायकस्य संहितबाणस्यास्य मत्कार्मुकस्य निदेशे वर्तत इति निदेशवर्त्याज्ञावशो भवति, अविलम्बेनैव भविष्यतीत्यर्थः । 'वर्तमानसामीप्ये वर्तमानवद्वा' (पा. ३।३।१३१) इति लद ॥ ४ ॥
संप्रति चतुर्वर्गे मोक्षमधिकृत्याह-
असंमतः कस्तव मुक्तिमार्गं पुनर्भवक्लेशभयात्प्रपन्नः।
बद्धश्चिरं तिष्ठतु सुन्दरीणामारेचितभ्रूचतुरैः कटाक्षैः॥५॥
असंमत इति ॥ तवासंमतः कः ? पुनर्भवः पुनरुत्पत्तिः, संसार इति
पाठा०-१ संवर्धितुम्. २ फलकाङ्क्षिणा. ३ आरोपितः. ४ विलासैः.
४ कु० सं०