पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ५९-६४]
४७
इन्द्रेण हरचित्ताकर्षणार्थं स्मरसंस्मरणम्

विभूतिभिः शौर्यसंपत्तिभिः सुरबन्दीनां वेणीमॊक्ष्यते विलंसयिष्यति । तारकासुरं हनिष्यतीति भावः ॥ ६ ॥

  इति व्याहृत्य विबुधान्विश्वयोनिस्तिरोदधे ।
  मनस्याहितकर्तव्यास्तेऽपि देवा दिवं ययुः ॥ २ ॥

 इतीति ॥ विश्वस्य योनिः कारणम् । 'योनिः स्त्रीणां स्थानभेदे कारणे तान्त्रिके पणे' इति वैजयन्ती । विबुधान्सुरानिति व्याहृत्याभिधाय तिरोदधेऽन्तर्हितवान् । ते देवा अपि मनस्याहितं कर्तव्यं यैस्तै तथोक्ताः सन्तो दिवं स्वर्गं ययुः प्रापुः ॥६२॥

  तत्र निश्चित्य कंदर्पमगमत् पाकशासनः ।
  मनसा कार्यसंसिद्धौ स्वराद्विगुणरंहसा ॥ ६३ ॥

 तत्रेति ॥ पाको नाम कश्चिदसुरस्तस्य शासन इन्द्रस्तस्य हरचित्ताकर्षणकृत्ये कंदर्प निश्चित्य, साधकत्वेनेति शेषः । कार्यसंसिद्धौ त्वरयौत्सुक्येन द्वौ गुणौ यस्य तद्द्विगुणं द्विरावृत्तं रंहो वेगो यस्य तेन तथोक्तेन । 'गुणस्तु वृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु' इति वैजयन्ती । मनसाऽगमत् , सस्मारेत्यर्थः । गमेर्लुङ् । लूदित्त्वाच्च्लेरङादेशः ॥ ६३ ॥

  अथ स ललितयोषिद्भूलताचारुशृङ्गं
   रतिवलयपदाङ्के चापमासज्य कण्ठे ।
  सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः
   शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वा ॥ ६४ ॥

 अथेति ॥ अथ स्मरणानन्तरम् , स स्मृत इत्यर्थः । पुष्पं धनुर्यस्य स पुष्पधन्वा कामः । 'वा संज्ञायाम्' (पा. ५१४।१३३) इत्यानङ् । 'ललितं त्रिषु सुन्दरम्' इत्यमरः । ललितायाः सुन्दर्या योषितो भ्रुवौ लते इव चारुणी शृङ्गे कोटी यस्य तत्तथोक्तं चापम् । रतिः स्मरप्रिया। रतिः स्मरप्रिया' इत्यमरः। तस्या वलयपदानि


पाठा०-१ प्रति. २ कर्मसंसिद्धि; कार्यसंसिद्ध्यै कार्यसंसिद्धित्वरा. ३ सुललित. ४ शार्ङ्गम्. ५ पुष्पकेतुः. टिप्प०---1 'अत्र लता-शब्दः प्राशस्त्यवचनः; अन्यथा भ्रू-शब्दग्रहणेनैव सिद्धे

लताशब्दस्याचारितार्थं स्यात्' इति बाल० ।