पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६
[ सर्गः २
कुमारसंभवे

 संप्रति तदंशोत्पत्तावुपायं दर्शयति-

  उमारूपेण ते यूयं संयमस्तिमितं मनः ।
  शंभोर्यतध्वमाक्रष्टुमयस्कान्तेन लोहवत् ॥ ५९॥

 उमेति ॥ ते कार्यार्थिनो यूयं संयमस्तिमितं समाधिनिश्चलं शंभोर्मन उमा- रूपेणोमासौन्दर्येण । 'रूपं स्वभावे सौन्दर्ये नाणके पशुशब्दयोः । ग्रन्थावृत्तौ नाटकादावाकारश्लोकयोरपि ॥' इति विश्वः । अयस्कान्तेन मणिविशेषेण । 'कस्कादिषु च' (पा.८।३।४८) इति सकारः । लोहवदयोधातुमिव । 'तेन तुल्यं क्रिया चेद्वतिः' (पा.५:१६११५) इति वतिप्रत्ययो मृग्यः । आक्रष्टुमाहर्तुं यतध्वमुद्युक्ता भवत ॥ ५९॥

न च गत्यन्तरमस्तीत्याह-

  उभे एव क्षमे वोढुमुभयोर्बीजमाहितम् ।
  सा वा शंभोस्तदीया वा मूर्तिर्जलमयी मम ॥ ६ ॥

 उभे इति ॥ उभयोः शंभोर्मम चाहितं निषिक्तं बीजं तेजो वोढुं सा वोमा शंभोरष्टमूर्तेस्तस्येयं तदीया जलमयी मूर्तिर्वा मम, उभे एव क्षमे, न तृतीयेत्यर्थः । 'वा'शब्दो द्वन्द्वार्थे, न त्वन्यार्थे । एतदेवोदाहृत्येत्थमेव व्याख्यातं गणव्याख्याने । अत्र दीपकालंकारः। प्राकरणिकयोरुमामहेश्वरयोरप्राकरणिकयोब्रह्मजलमूत्योश्चौपम्यस्य गम्यत्वात् । यथाह भोजराजः- 'प्रस्तुतानामप्रस्तुतानां चौपम्यस्य गम्यत्वे दीपकम्' इति । न चेयं तुल्ययोगिता, तस्याः केवलप्रस्तुतविषयत्वेन केवलाप्रस्तुतविषयत्वेन चोत्थानादिति ॥ ६० ॥

  तस्यात्मा शितिकण्ठस्य सैनापत्यमुपेत्य वः।
  मोक्ष्यते सुरवन्दीनां वेणीवीर्यविभूतिभिः ।। ६१ ॥

 तस्येति ।। तस्य शितिकण्ठस्याष्टमूर्तेरामा, पुत्र इत्यर्थः । ‘आत्मा वै पुत्रनामासि' (कौषी० २।११) इति श्रुतेः । वो युष्माकं सेनापतेर्भावः सैनापत्यम् । 'पत्यन्तपुरोहितादिभ्यो यक्' (पा.५११२८) इति यक्प्रत्ययः । उपेत्य प्राप्य वीर्य-


पाठा०--१ सोढुम्. २ सेनापत्यम्. ३ वेणीबन्धानदूषितान्.


टिप्प०-1 'वा-शब्दोऽत्र प्रथमोऽत्यन्तान्यसंयोगवारणाय, अन्यस्तु समुच्चये ।

तदीया शांभवी जलमयी जलप्रधाना मूर्तिरष्टमूर्तिमध्ये जलस्य पठितत्वात्' इति बाल०।