पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ५३-५८]
४५
धात्रा तारकासुरस्यावध्यशक्तिकत्वे हेतुः

  वृतं तेनेदमेव प्राञ्जया चास्मै प्रतिश्रुतम् ।
  वरेण शमितं लोकानलं दग्धुं हि तत्तपः ॥ ५६ ॥

 वृतमिति ॥ प्राक्पूर्वं तेनासुरेणेदमेव देवैरवध्यत्वमेव वृतं प्रार्थितम् । मया चास्मै तारकाय प्रतिश्रुतं प्रतिज्ञातम् । 'प्रत्याभ्यां श्रुवः पूर्वस्य कर्ता' (पा. १।४।४०) इति संप्रदानत्वाच्चतुर्थी । कर्तव्यं चैतदित्याह-लोकान् दग्धुमलं शक्तम् । 'पर्याप्तिवचनेष्वलमर्थेषु' (पा. ३।४।६६) इति तुमुन्प्रत्ययः। तस्य तपस्तत्तपो वरेण वरदानेन शमितं हि, मयेति शेषः ॥ ५६ ।।

  संयुगे सांयुगीनं तमुद्यतं प्रसहेत कः ।
  अंशाहते निषिक्तस्य नीललोहितरेतसः ॥ ५७ ॥

 संयुग इति ॥ संयुगे युद्ध उद्यतं व्याप्रियमाणम् । संयुगे साधु सांयुगीनम् । 'प्रतिजनादिभ्यः खञ्' (पा.४।४।९९) इति खञ्प्रत्ययः ।तं तारकं निषिक्तस्य कृषिक्षेत्रे क्षरितस्य । 'नीलः कण्टे लोहितश्च केशेष्विति नीललोहित इति पुराणम्' इति स्वामी। तस्य नीललोहितस्य धूर्जटे रेतसः शुक्रस्यांशादृतेंऽशं विनाऽन्यः कः प्रसहेताभिभवेत् ? 'प्रसहनमभिभवः' इति वृत्तिकारः ॥ ५७ ॥

 कथमसावीदृक्शक्तिरित्याह--

  स हि देवः परं ज्योतिस्तमःपारे व्यवस्थितम् ।
  परिच्छिन्नप्रभावर्द्धिर्न मया न च विष्णुना ॥ ५८ ॥

 स इति ॥ स देवो नीललोहितस्तमसः पारे परतो व्यवस्थितं तमोगुणा- तीतं परं ज्योतिः परमात्मा हि । अत एव मया परिच्छिन्नप्रभावर्द्धिरवगाढमहिमातिशयो न भवति, तथा विष्णुना च न, अतस्तस्यासाध्यं नास्तीत्यर्थः ॥ ५८ ॥


पाठा०-१ वृतः. २ अहम् ; आदौ. ३ अशमितम्. ४ उद्यन्तम् ; युध्य- न्तम्. ५ प्रतिष्ठितम्.

टिप्प.--1 'तपसो ह्यवश्यं फलेन भाव्यम् , तत् वरेण यदि न शाम्येत्तदाधिकोपद्रवाय क्षमं स्यात्' इति बाल०। 2 'ज्योतिः-शब्दस्य नित्यनपुंसकत्वेन विशेषणविशेष्यभावेऽप्यदोषः, "वेदाः प्रमाणम्" इतिवत्' इति खाल०।